SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ एकास्यो द्विभजो वक्षः, सर्वो जगति दृश्यते । मिथ्यात्वाकलिलोकै-रन्यथा परिकल्प्यते ॥ ९३२॥ अनादिनिधनो लोको, व्योमस्थोऽकृत्रिमः स्थिरः । नैतस्य विद्यते का, गगनस्येव कश्चन ॥ ९३२॥ खकर्मप्रेरिताः सर्वे, पर्यटन्ति शरीरिणः । गतिचतुष्टये दुःख-सुखभाजः पृथक् पृथक् ॥ ९३३ ॥ नन्ति ये विपदः खस्य, न विष्णुब्रह्मशम्भवः । परेषां सुखदुःखानि, कथं कुर्वन्ति ते पुनः? ॥ ९३४ ॥ न यः शमयते घाम, निजमग्निकरालितम् । सोऽन्यगेहशमे शक्त, इति कैः प्रतिपद्यते ? ॥ ९३५ ॥ रागद्वेषमहामोह-मोहिताः सुखदानि ये । न विदन्ति खकृत्यानि, ते कथं मुक्तिदर्शिनः? ॥ ९३६ ॥ कामभोगातुरैनीचै-रन्यथास्थं जगत्रयम् । अन्यथा कथितं श्वभ्रवासदुःखभयोज्झितैः ॥ ९३७ ॥ उन्मार्गेश्छादिते मुक्ति-मार्गे संसारगामिभिः । यः करोति विचारं न, स कथं शिवमश्नुते ? ॥ ९३८ ॥ छेदनस्तापनस्ताडनैः कनकं यथा। परीक्ष्यते तथा धर्म-स्तपःशीलदयायमैः ॥ ९३९ ॥ देवं गुरुं च ये धर्म, परीक्ष्योपासते धिया। ते कर्मशृङ्खला यान्ति, भित्त्वा सद्यो महोदयम् ॥ ९४०॥ देवो देवेन धीमद्भिः, परीक्ष्यो गुरुणा गुरुः । धर्मो धर्मेण धर्मार्थ-साधकैनरपुङ्गवः ॥९४१॥ ध्वस्तका जगद्वेदी, देवो विश्वपतिर्मतः । गुरुः सङ्गपरित्यक्तो, धर्मो जीवदयामयः ॥ ९४२॥ इत्युक्त्वा खेचरो मित्रं, पुनः माह विशुद्धधीः । तवान्यदपि मित्राहं, दर्शयामि कुतूहलम् ॥ ९४३ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy