SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नामाप्याकर्णितं यस्य, चित्तं कम्पयतेतराम् । साक्षादुपागतो मृत्युः, स न किं कुरुते भयम् ? ॥ ९०५ ॥ उपसर्गे महारोगे, पुत्रमित्रधनक्षये । विषादः खल्पसत्त्वस्य, जायते प्राणहारकः ॥ ९०६ ॥ आत्मासंभविनीं भूति, विलोक्य परभाविनीम् । ज्ञानशून्यस्य जीवस्य, विस्मयो जायते परः ॥९०७ ॥ सर्वामध्यमये हेये, शरीरे कुरुते रतिम् । बीभत्से कुथिते नीचः, सारमेयो यथा शवे ॥ ९०८॥ व्यापारं कुर्वतः खेदो, देहिनो देहमईकः । जायते वीर्यहीनस्य, विकलीकरणक्षमः ॥९०९॥ श्रमेण दुर्निवारण, देहो व्यापारभाविना । तापितः खेद्यते क्षिप्रं, घृतकुम्भ इवामिना ॥ ९१० ॥ निद्रया मोहितो जीवो, न जानाति हिताहितम् । सर्वव्यापारनिर्मुक्तः सुरयेव विचेतनः ॥ ९११ ॥ हरः कपालरोगातः, शिरोरोगी हरिर्मतः । हिमेतररुचिः कुष्ठी, पाण्डुरोगी विभावसुः ॥ ९१२ ॥ निद्रयाऽधोक्षजो व्याप्तश्चित्रभानुर्बुभुक्षया । शङ्करः सर्वदा रत्या, रागेण कमलासनः ॥९१३ ॥ रामा सूचयते राग, द्वेषं वैरिविदारणम् । मोहं विनापरिज्ञान, भीतिमायुधसंग्रहः ॥ ९१४ ॥ एतैर्ये पीडिता दोषैस्तैर्मुच्यन्ते कथं परे? । सिंहानां इतनागानां, न खेदोऽस्ति मृगक्षये ॥ ९१५॥ सर्वे रागिणि विद्यन्ते, दोषा नात्रास्ति संशयः । रूपिणीव सदा द्रव्ये, गन्धस्पर्शरसादयः ॥ ९१६ ॥ योकमूर्तयः सन्ति, ब्रमविष्णुमहेश्वराः। मिथस्वदाऽपि कुर्वन्ति, शिरश्छेदादिकं कथम् ॥९१७ ॥ ॐॐॐॐॐ ARATARAKSE
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy