SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ धर्म परीक्षा. ॥३०॥ छिन्नेऽपिमूषकैः कर्णे, मदीयस तथा स्फुटम् । बिडालस्य न नश्यन्ति, गुणा गुणगरीयसः॥७६२॥त्रिमिर्विषेकम्। आशंसिषुस्ततो विप्राः,शोभनंभाषितं त्वया।विज्ञा विज्ञवचः श्रुत्वा, यथार्थ दूषयन्ति न ॥७६३॥ शतधा भो विशीर्यन्ते, पुराणानि विचारणे । वसनानीव जीर्णानि, किं कुर्मो भद्र ! दुःशके १॥७६४ ॥ तेषामिति वचः श्रुत्वा, प्राह खेचरनन्दनः । श्रूयतां ब्रामणा ! देवः, संसारदुमपावकः ॥ ७६५ ॥ लावण्योदकवेलाभिर्मन्मथाऽऽवासभूमिभिः । त्रिलोकोत्तमरामाभिर्गुणसौन्दर्यखानिभिः ॥ ७६६ ॥ विध्यन्तीभिर्जनं सर्व, कटाक्षेक्षणमार्गणैः । न यस्य भिद्यते चेत-स्तं देवं नमत त्रिधा ॥ ७६७ ॥ युग्मम् ॥ विहाय पावनं योग, शङ्करः शिवकारणम् । शरीरार्धगतां चक्रे, पार्वतीमेकमानसः ॥ ७६८ ॥ विष्णुना कुर्वताऽऽदेशं, यदीयं सुखकाङ्क्षिणा । अकारि हृदये पना, गोपीनखविदारिते ॥ ७६९ ॥ दृष्ट्वा दिव्यवधूनृत्तं, ब्रह्माऽभूचतुराननः । वृत्तं तृणमिव त्यक्त्वा, ताडितो येन सायकैः॥ ७७० दुर्वारर्मार्गणैस्तीक्ष्णैर्येनाऽऽहत्य पुरन्दरः। सहस्रभगतां नीतः, कृत्वा दुष्कीर्तिभाजनम् ॥ ७७१ ॥ शासिताशेषदोषेण, सर्वेभ्योऽपि बलीयसा । यमेन विभ्यताऽन्तःस्था, सदाऽकारि प्रिया यतः ॥ ७७२ ॥ मुखीभूतोऽपि देवानां, त्रिलोकोदरवर्तिनाम् । ग्रावानोकहवर्गेषु, वह्निर्येन प्रवेशितः ॥ ७७३॥ स जितो मन्मथो येन, सर्वेषामपि दुर्जयः। तस्य प्रसादतः सिद्धिर्जायते परमेष्ठिनः॥७७४॥ सप्तभिः कुलकम् ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy