________________
**
***
तस्य तां सेवमानस्य, कन्याऽजनि मनोरमा । नीतिं सर्वध(ज)नाभ्यथ्या, संपत्तिरिव रूपिणी ॥ ६७१॥ अमुष्य बन्धुरा कन्या, साऽजनिष्टाऽष्टवर्षिणी । परोपकारिणी लक्ष्मीः, कृपणस्येव मन्दिरे ॥ ६७२॥ अवादीदेकदा कान्तामसौ मण्डपकौशिकः । तीर्थयात्रां प्रिये कुर्मः, समस्तापविनाशिनीम् ॥ ६७३ ॥ सुतामिमां कस्य हस्ते, न्यासीकुर्वे प्रिये ! वद ? । वर्णवर्णा सुलावण्यां, यौवनागममण्डिताम् ॥ ६७४ ॥ यस्य चैषाऽप्य॑ते कन्या, गृहीत्वा सोऽपि तिष्ठति । न कोऽपि विद्यते लोके, रामारत्नपराङ्मुखः ॥ ६७५ ॥ द्विजिह्वसेवितो रुद्रो, रामादत्तार्धविग्रहः । मन्मथानलतप्ताङ्गः, सर्वथा विषमेक्षणः ॥ ६७६ ॥ देहस्थां पार्वतीं हित्वा, जाह्नवीं यो निषेवते । स मुञ्चति कथं कन्यामासाद्योत्तमलक्षणाम् ॥ ६७७ ॥ यस्य ज्वलति कामाग्नि-हृदये दुर्निवारणः । दिवानिशं महातापो, जलधेरिव वाडयः ॥ ६७८ ॥ कथं तस्यार्पयाम्येनां, धूर्जटेः कामिनः सुताम् । रक्षणायार्यते दुग्धं, मार्जारस्य बुधैर्न हि ॥६७९॥ युग्मम् ॥ सहस्रैर्यो न गोपीनां, तृप्तः षोडशभिहरिः । निषेवितोऽम्भोधिरिव, नदीलक्षैर्गुणोत्तमैः ॥ ६८० ॥ गोपीर्निषेवते हित्वा, यः पना हृदयस्थिताम् । स प्राप्य सुन्दरां रामां, कथं मुञ्चति माधवः १ ॥ ६८१ ॥ ईदृशस्य कथं विष्णोरर्पयामि शरीरजाम् । चौरस्य हि करे रत्नं, केन त्राणाय दीयते ?.॥ ६८२॥ नृत्तदर्शनमात्रेण, मा(सा)रं वृत्तं मुमोच यः । स ब्रह्मा कुरुते किं न, सुन्दरां प्राप्य कामिनीम् ? ॥ ६८३ ॥
*
*