________________
साराऽसाराणि यो वेत्ति, न वस्तूनि निरस्तधीः । निरस्यति करप्राप्त, रत्नमेषोऽन्यदुर्लभम् ॥ ४६३॥ लागलीवास्ति यद्यत्र, सारासार(रा)विवेचकः । विभेमि पृच्छयमानोऽपि, तदा वक्तुमहं द्विजाः ॥ ४६४ ॥ दुरापागरुविच्छेदी, भाषितो निर्विचारणः । युष्माकं चन्दनत्यागी, श्रूयतां भाव्यतेऽधुना ॥ ४६५ ॥ मध्यदेशे सुखाधारे, महनीये कुरूपमे । राजा शान्तमना नाम्ना, मथुरायामजायत ॥ ४६६ ॥ एकदा दुर्निवारेण, ग्रीष्मार्केणेव सिन्धुरः । पित्तज्वरेण धात्रीशो, विह्वलोऽजनि पीडितः ॥ ४६७ ॥ तस्योपचर्यमाणोऽपि, भेषर्वीर्यधारिभिः । तापोऽवर्धत दुश्छेदः, काष्टैरिव विभावसुः ॥ ४६८ ॥ चिकित्सामष्टधा वैद्या, विदन्तोऽप्यभवन् क्षमाः । तापोपशमने नास्य, दुर्जनस्येव सजनाः ॥ ४६९ ॥ तं वर्धमानमालोक्य, दाहं देहे महीपतेः । मत्रिणा घोषणाऽकारि, मथुरायामशेषतः ॥ ४७० ॥ दाहं नाशयते राज्ञो, यः कश्चन शरीरतः । ग्रामाणां दीयते तस्य, शतमेकं सगौरवम् ॥ ४७१ ॥ कण्ठाभरणमुत्कृष्टं, मेखला खलु दुर्लभा । दीयते वस्त्रयुग्मं च, राज्ञा परिहितं निजम् ॥ ४७२ ॥ इतश्चन्दनदार्वेको, वाणिजो निर्गतो बहिः । ददर्श दैवयोगेन, रजकस्य करस्थितम् ॥ ४७३ ॥ गोशीर्षचन्दनं काष्ठं, तेन ज्ञात्वाऽलिसङ्गतः । भणितोऽसौ त्वया भद्र!, क लब्धं निम्बकाष्ठकम् १॥ ४७४ ॥ तेनाऽवादि मया प्रासं, वहमानं नदीजले । वणिजोक्तमिदं देहि, गृहीत्वा काष्ठसञ्चयम् ॥ ४७५॥