SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विचिन्त्येति तदादाय, कदोष्णं गोमयं नवम् । प्रक्षिशैकैकगोधूमकणं निन्द्यं बहुद्रवम् ॥ २५५ ॥ गृहाण त्वमिदं नीत्वा, जेमनं वितर प्रभोः । इत्युक्त्वा भाजने कृत्या, सुन्दर्या सा समर्पयत् ॥ २५६ ॥ युग्मम् ॥ आनीयैतत्तया दत्तं स्तावं स्तावमभक्षयत् । भोजनं सुन्दरं हित्वा स शूकर इवाशुचिम् ॥ २५७ ॥ गोमयं केवलं भुक्त्वा, शालायां स निविष्टवान् । ग्रामकूटो द्विजं प्रष्टुं प्रवृत्तः प्रेयसीक्रुधम् ॥ २५८ ॥ किं प्रेयसी मम क्रुद्धा! किं किंचिद् भणिता त्वया ? । ममाथ दुर्णयः कश्चित्कथ्यतां भद्र ! निश्चयम् ॥ २५९ ॥ सोsवादीद् भद्र ! तावत्ते, तिष्ठतु प्रेयसीस्थितिः । श्रूयतां चेष्टितं स्त्रीणां सामान्येन निवेद्यते ॥ २६० ॥ न सोऽस्ति विष्टपे दोषो, विद्यते यो न योषिताम् । कुलखनोऽधकारोऽसौ, शर्वर्या यो न जायते ॥ २६१ ॥ हुमात्र किमुक्तेन ? महत्तर ! निबुध्यताम् । प्रत्यक्षा वैरिणी गेहे, कुरङ्गी तव तिष्ठति ॥ २६२ ॥ विटेभ्यो निखिलं दत्वा तव द्रव्यं विनाशितम् । कुरङ्गपा पापया तस्याश्चरित्रमिव दुर्लभम् ॥ २६३ ॥ तक या हरते द्रव्यं, निर्भयीभूतमानसा । हरन्ती वार्यते केन, जीवितं सा दुराशया १ ॥ २६४ ॥ निशम्येति वचस्तस्य, विप्रस्य हितभाषिणः । स गत्वा सूचयामास, कुरङ्गयाः सकलं कुधीः ॥ २६५ ॥ -सा जगाद दुराचारः, शीलं मे हर्त्तुमुद्यतः । मया खामिन्निषिद्धोऽयं, भाषते दूषणं मम ॥ २६६ ॥ जम्बायानामशेषाणां, नक्राणामिव नीरभिः । निधानमिव दुष्टात्मा, क्षिप्रं निर्घाव्यतां प्रभो ! ॥ २६७ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy