SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ++++++ इदं व्रतं द्वादशभेदभिन्नं, यः श्रावकीयं जिननाथदृष्टम् । करोति संसारनिपातभीतः, प्रयाति कल्याणमसौ समस्तम् ॥ १४७६ ॥ श्रुत्वा वाचमशेषकल्मषमुषं साधोत्रेताशंसिनीं । नत्वा केवलिपादपङ्कजयुगं मर्त्यामरेन्द्रार्चितम् । आत्मानं व्रतरत्नभूषितमसौ चक्रे विशुद्धाशयो । मित्रादुत्तमतो न किं भुवि नरः प्राप्नोति सद्वस्त्वहो ? ॥१४७७ ॥ तं विलोक्य जिनधर्म्मभावितं, तुष्यति स्म जितशत्रुदेहजः । स्वश्रमे हि फलिते विलोकिते, संमदो हृदि न कस्य जायते १ । १४७८ ॥ चतुर्विधं श्रावकधर्म्ममुज्वलं, मुदा दधानौ कमनीयभूषणौ । विनिन्यतुः कालमम् खगाङ्गजौ, परस्परं प्रेमनिबद्धमानसौ ॥ १४७९ ॥ आरुशाकभूषी स्फुरितमणिगणभ्राजमानं विमानम् । मर्त्यक्षेत्रस्थसर्षप्रथितजिनगृहान्तर्निविष्टाईदर्चाः । क्षित्यां तौ वन्दमानौ सततमचरतां देवराजाविवाय । कुर्वाणाः शुद्धबोधा निजहितचरितं न प्रमाद्यन्ति सन्तः ॥ १४८० ॥ श्रीमद्गौतमशुद्धहीरविजयाचार्या जयन्ति क्षितौ ।
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy