SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ शरीरे दृश्यमानेऽपि न चैतन्यं विलोक्यते । शरीरं च न चैतन्यं, यतो भेदस्तयोस्ततः ॥ १२६८ ॥ चक्षुपा वीक्ष्यते गात्रं, चैतन्यं संविदा यतः । भिन्नज्ञानोपलम्भेन, ततो भेदस्तयोः स्फुटम् ॥ १२६९ ॥ प्रत्यक्षमीक्ष्यमाणेषु, सर्व्वभूतेषु वक्तृषु । अभावः परलोकस्य, कथं मूढैर्विधीयते ॥ १२७० ॥ दुग्धाम्भसोर्यथा भेदो, विधानेन विधीयते । तथात्मदेहयोः प्राज्ञैरात्मतत्त्वविचक्षणैः ॥ १२७१ ॥ बन्धमोक्षादितत्त्वानामभावः क्रियते यकैः । सर्वदर्शन निन्द्येभ्यस्तेभ्यो धृष्टोऽस्ति कः परः ? ॥ १२७२ ॥ कर्मभिर्वध्यते नात्मा, सर्वथा यदि सर्वदा । संसारसागरे घोरे, वम्भ्रमीति तदा कथम् ? || १२७३ ॥ सदा नित्यस्य शुद्धस्य, ज्ञानिनः परमात्मनः । व्यवस्थितिः कुतो देहे, दुर्गन्धामेध्यमन्दिरे ? ॥ १२७४ ॥ सुखदुःखादिसंवित्तिर्यदि देहस्य जायते । निर्जीवस्य तदा नूनं, भवन्ती केन वार्यते ? ॥ १२७५ ॥ आत्मा वर्तमानोऽपि यत्र तत्र न बध्यते । बन्धबुद्धिमकुर्वाणो, नेदं वचनमञ्चति (ञ्चितम्) | १२७६ ॥ कथं निर्बुद्धिको जीवो, यत्र तत्र प्रवर्त्तते । प्रवृत्तिर्न मया दृष्टा, पर्वतानां कदाचन ॥ १२७७ ॥ मृत्युबुद्धिमकुर्वाणो, वर्त्तमानो महाविषे । जायते तरसा किं न, प्राणी प्राणविवर्जितः १ ॥ १२७८ ॥ यद्यात्मा सर्वथा शुद्धो, ध्यानाभ्यासेन किं तदा । शुद्धे प्रवर्तते कोऽपि, शोधनाय न काश्वने ॥ १२७९ ॥ नात्मनः साध्यते शुद्धिर्ज्ञानेनैव कदाचन । न भेषजावबोधेन, व्याधिः क्वापि निहन्यते ॥ १२८० ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy