SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir व्याख्या-सोऽपि बालक उन्मुक्तबालभावः सातोऽष्टवर्षः, पुनर्विज्ञातं-विज्ञानं परिणतमानं यस्य सः। कापि "विणयेति"पाठः, तत्र विज्ञ एव विज्ञका, सचासौ परिणतमात्रश्च फलादिषु इति गम्यम् । पुनः यौवनकमनुप्राप्तः सन् । एतेषां ऋग्वेद १ यजुर्वेद २ सामवेद ३ अथर्वण ४ वेदानाम् , अत्र प्राकृतत्वात् षष्ठीलोपः। किंविशिष्टानां वेदानाम् ? । इतिहासपुराणं पञ्चमं येषां ते। पुनः किंविशिष्टानां वेदानां निघण्टुर्नाममाला षष्ठा येषां ते। पुनः किंभूतानां वेदानाम् । साङ्गोपाङ्गानां अझैः उपाङ्गैश्च सहितानाम् । तत्र अङ्गानि-शिक्षा १ कल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तयः ६षडिति, उपाङ्गानि-तेषां एव अङ्गानां प्रपश्चनपराः प्रबन्धाः। किंभूतानां । वेदानाम् ? । सरहस्यानांऐदंपर्यसहितानाम् , सारका अध्यापनेन प्रवर्तकः स्मारको वा विस्मृतस्य मारणात् । पुनः पारगः पर्यन्तगामी, धारक अधीतान् धारयितुं क्षमः। कचित् “वारए" इति पाठः, तत्र-वारका, अशुद्धपाठनिषेधात् । पुनः षडङ्गवित्-शिक्षादि विचारका, ज्ञानार्थे तु पौनरुत्तयं न स्यात् । पुन: षष्टिरास्तब्रिता अत्रेति षष्टितन्त्रम् कापिलीयशास्त्रम् तत्र विशारदः। पुनःसंख्याने संकलितव्यवकलितादिगणितस्कन्धे । "सिक्खाणे"त्ति शिक्षामणतिम्प्रतिपादयति शिक्षाणं-आचारशास्त्रम् , तत्र शिक्षा च अक्षरखरूपनिरूपकं शास्त्रम् , कल्पश्च यज्ञादिसमाचारीवाचकं चेति शिक्षाकल्पम् । तत्र पुनः व्याकरणे शन्दलक्षणशास्त्रे, छन्दसिपद्यलक्षणनिरूपकशास्त्रे, निरुक्ते पदभञ्जने । पुनः ज्योतिषां अयने ज्ञाने ज्योति शास्त्रेषु इत्यर्थः । अन्येष्वपि यहुषु ब्राह्मणकेषु वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिषु ब्राह्मणहितेषु वा परिव्राजकदर्शनप्रसिद्धेषु नयेषु पुनः पावरहस्यानां ऐदंपर्यापडिति, उपा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy