SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०१ श्रीवीरस्य च्यवनकल्याणक। ब्राह्मणानां "कुण्ड" आज्ञा यस्मिन् ग्रामे स ब्राह्मणकुण्डग्रामः, तस्मिन् ऋषभदत्तस्य ब्राह्मणस्य "कोडालस" इति नाना गोत्रस्य तस्य या भार्या देवानन्दानाम्नी "जालन्धर" इतिगोत्रा तस्याः कुक्षौ गर्भतया व्युत्क्रान्तः= उत्पन्न इत्यर्थः । कस्मिन समये ? । पूर्वरात्रश्चासी अपररात्रश्च स एव काललक्षणःसमयो न समाचारादिलक्षणः तत्र मध्यरात्रे इत्यर्थः । आर्षत्वात् एकरेफलोपः, अपरात्रशब्दोऽयं वा । 'अर्धे गते सर्व गतम् इति न्यायात् अपगता रात्रिः (यस्मात् सः) अपरात्रः । पुनः हस्तोत्तरानक्षत्रे चन्द्रेण सह योगमुपगते सति "आहारवकंतीए त्ति" आहारापक्रान्त्या=देवाहारपरित्यागेन अथवा आहारव्युत्क्रान्त्या अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेनेत्यर्थः । एवमन्यदपि पदद्वयं व्याख्येयम् ॥ ते णं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, 'चइस्सामि' त्ति जाणइ, 'चयमाणे न जाणइ, 'चुएमिति जाणइ ॥ जं रयणिं च णं समणे भगवं महावीरे देवानंदाए माहणीए जालंधरसगुत्ताए कञ्छिसि गम्भत्ताए वक्तंते, तं रयणि च णं सा देवाणंदा माणी सयणिजंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेएयारूवे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy