SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - "इचेइअं संवच्छरिअं त्ति" इतिः - उपदर्शने । एवं पूर्वोक्तं सांवत्सरिकं- वर्षारात्रिकं स्थविरकल्पं यद्यपि किंचित् जिनकल्पिकानां अपि सामान्यं तथापि भूम्ना स्थविराणां एव अत्र सामाचारीस्थविरकल्पमर्यादां यथा सूत्रेण भणितं न सूत्रव्यपेतं, तथा कुर्वतः कल्पो भवति । अन्यथा तु अकल्प इति यथाकल्पं १ एवं कुर्वतश्च ज्ञानादित्रयलक्षणो मार्ग इति यधामार्ग २ याथातथ्यं यथैव समुपदिष्टं भगवद्भिः ३ यथासम्यक यथास्थितं ४ “ कारण त्ति" उपलक्षणत्वात् कायवाङ्मनोभिः । अथवा कायशब्देनैव योगत्रयं व्याख्यायते, तथाहि कायेन शरीरेण "कै गै रे शब्दे" कायते उच्चार्यते अनेन कायो-वचनं तेन, कं ज्ञानं तदेव आत्मा= स्वरूपं यस्य तत् कात्मनः बुद्ध्यात्मकत्वात् मनसः तेन ततश्च कायवाङ्मनोभिः इत्यर्थः । स्पृष्ट्वा = आसेव्य पालयित्वा - अतिचारेभ्यो रक्षित्वा, शोधयित्वा दोषदूरीकरणात् शोभयित्वा विधिवत्करणेन, तीरयित्वा - यावज्जीवं आराध्य यावज्जीवं आराधनेन अन्तं नीत्वा वा, कीर्तयित्वा अन्येभ्यः उपदिश्य न तु विराध्य यथावत् करणात्, आज्ञया भगवदुपदेशेन अनुपालय पूर्वैः पालितात् पश्चात् पालनेन तस्यैव पालितस्य फलं आह"अत्थेगइय त्ति” सन्ति एके ये अत्युत्तमतया तत्पालनतया तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति-निष्ठि तार्था भवन्ति । बुद्ध्यन्ते= केवलज्ञानेन, मुच्यन्ते भवोपग्राहिकर्मांशेभ्यः, परिनिर्वान्ति-कर्मकृतसकलसन्तापविरहात् शीतीभवन्ति । किमुक्तं भवति १ । सर्वदुःखानां = शारीरमानसानां अन्तं विनाशं कुर्वन्ति, उत्तमतया अनुपालनया द्वितीये भवे, मध्यमया तृतीयभवे, जघन्ययापि अनुपालनया सप्त अष्टौ वा भवग्रहणानि For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy