SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एव माता मृता। विमात्रा अपमानितः सन् नित्यं दूनो दुःखितस्तिष्ठति । खमित्रस्य श्राद्धस्य वचनेन सर्वदुःखापहारि तपः कुर्वन् तिष्ठति । एकदा श्रीपर्युषणापर्वणि समागते खमित्रश्राद्धवचनेन अष्टमं तपः कृत्वा, एकस्मिन तृणगृहे सुप्तः, तावता आसन्नं प्रदीपनं लग्नम् । ततो विमात्रा तन्मारणाय तस्मिन्गृहे अग्निः क्षिप्तः। ततः स तपोध्यानैकाग्रचित्तः तव्यथां अविज्ञाय मृत्वा अपुत्रस्य अस्य श्रेष्ठिनो गृहे पुत्रो जातः। ततः पूर्वभवसंस्कारात् पर्युषणापर्वदिनं श्रुत्वा जातिस्मरणेन अष्टमं तपः कृतवान् । स्तन्यमपि अपियन मूर्छया मृत इति ज्ञात्वा | वजनैर्भूमौ निक्षिप्तः, मया अमृतपानेन जी[व]वित इति । ततो धरणेन्द्रो बालस्याहारं दत्त्वा, स्वस्थानं गतः। राजा इति विस्मयकारिणी बालकथां श्रुत्वा, बालस्य मातुः कथयति स्म-'अयं बालो भव्यरीत्या रक्षणीय इति। तदादितः खजनै,लकस्य नागकेतुरिति नाम दत्तम् । अथ स बालो वर्द्धमानः चतुःपा चतुर्थ, चतुर्मासके षष्ठं, पर्युषणायां अष्टमं कुर्वन् सामायिक-पौषध-देवपूजादि धर्मकर्तव्यतत्परः सन् , यौवनेऽपि जितेन्द्रियो बभूव । अन्यदा राज्ञा एकश्चौरो व्यापादितः, स मृत्वा व्यन्तरो जातः, तेन व्यन्तरेण अदृश्यीभूतेन पादेन आहत्य सिंहासनात् राजा भुवि पातितः, लोकश्च सर्वोऽपि व्याकुलीभूतः। पुनरपि व्यन्तरो नगरोपरि महतीं शिलां| विकुळ दुर्वचनेन लोकान् भापयामास । ततो नागकेतुः श्रावकश्चतुर्विधसङ्क-जिनमासादप्रतिमारक्षार्थ उच्चैः प्रासादोपरि चटित्वा, तां व्यन्तरमुक्तां महतीं शिलां करेण धृतवान् । तस्य तेजसा हतप्रतापो व्यन्तरः शिलां संहृत्य नागकेतुं नत्वा राजानं समाधिमन्तं कृत्वा स्वस्थानं गतः। ततो नागकेतुश्राद्धो राजादीनां विशेषतो For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy