SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०१ ये मनुष्या निश्चलचित्ताः, जिनशासने प्रभावना-पूजासु सावधानाः सन्तः, त्रिसप्तवारम् (२१) श्रीकल्प-* कल्पसूत्रसूत्रम् सम्यक शृण्वन्ति, ते भव्यजीवाः शीघ्रम् संसारसमुद्रं संतरंति ॥ श्रवण| पुनरपि श्रीजीवाभिगमे प्रोक्तमस्ति-चतुर्मासिकत्रयस्मिन् श्रीपर्युषणापर्वणि च सुरेन्द्रा अपि एकत्र सम्भूय, माहात्म्य नन्दीश्वरादिषु अष्टाह्निकोत्सवं कुर्वन्ति । पुनरपि यत् यः) ब्रह्मचर्येण, तपसा, कनकदानेन तीर्थयात्रया च नागकेतुकर्मक्षयो भवति, स कल्पसूत्रनवणेन भवति । कथा च । पुनरपि अस्मिन् श्रीपर्युषणापर्वणि समागते नागकेतुबदष्टमतपः कार्यम् । नागकेतुसम्बन्धो यथा चन्द्रकान्ता नाम नगरी, विजयसेनो राजा, श्रीकान्तः श्रेष्ठी, श्रीसखी तस्य भार्या, तयोः पुत्रो जातः । एकदा कुटुम्बेन प्रोक्तम्-'श्रीपर्युषणापर्व समागतम्, वयं अष्टमं तपः करिष्यामः।' इति बचनं श्रुत्वा तस्य पुत्रस्य जातिस्मरणं ज्ञानं उत्पन्नम् । तेन बालेनापि अष्टमं तपः कृतम् । स्तन्यं न पिबति, मात्रादिभिवंहवः उपचाराः कृताः, परं तथापि न पिबति । ततो मूर्छया यालो निश्चेष्टो जातः, मृत इति ज्ञात्वा पिता दुःखात् हृदयस्फोटेन मृतः । तत्वजनैर्षालो भूमौ निक्षिप्तः । राज्ञा श्रुतम्-"श्रेष्ठी अपुत्रो मृता" ततो राज्ञा निजसेवका मुक्ता-“गच्छन्तु तद्धनं लान्तु ।” तस्मिन्प्रस्तावे धरणेन्द्रोऽवधिज्ञानेन विज्ञाय तत्रागत्य अमृतपानेन उपजीव्य, अपुत्रत्वेन श्रेष्ठिधनं गृहृतो राजपुरुषान् पुरुषरूपेण निवारयति स्म । ततो राज्ञा पृष्टे धरणेन्द्रो चालं जीवन्तं भुवि आकृष्य दर्शयित्वा पूर्वभवसम्वन्धं प्राह-तथाहि-अस्य बालस्य पूर्वभवे वाल्ये ॥ ७ ॥ LaXEXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy