SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं सचित्तः शिष्यो न परिव्राज्यते, अचित्तं वस्त्रादि न गृह्यते, मिश्रं सोपधिकः शिष्यः। एवं आहारविकृति- द्वितीया कल्पलता संस्तारकादिद्रव्येषु परिभोग-परिहारौ योज्यौ १। क्षेत्रस्थापना-सक्रोशं योजनं, कारणे वा ग्लानबद्यौषधादौसामाचारी व्या०९ चत्वारि पञ्च वा योजनानि २। कालस्थापना-चत्वारो मासा यत्र तत्र कल्पन्ते ३, भावस्थापना-क्रोधादीनां विवेकः ईर्याभाषणादिसमितिषु चोपयोग इति ॥ इति प्रथमा सामाचारी ॥१॥ ॥२४४॥ अथ वर्षावग्रहमानरूपा द्वितीया सामाचारी प्रोच्यते, तत्राहवासावासं पज्जोसवियाणं कप्पड निग्गंथाण वा निग्गंथीण वा सबओ समंता सक्कोसं जोयणं उग्गहं ओगिणिहत्ता णं चिट्रिउं अहालंदमवि उग्गहे ॥ ९॥ (२) व्याख्या-“वासावासं पजोसवियाणं” वर्षाकाले पर्युषितानां स्थितानां कल्पते, निर्ग्रन्थानां निर्ग्रन्थीनां जवा सर्वतः समन्तात् चतुर्दिक्षु विदिक्षु च सक्रोशं योजनं अवग्रहं अवगृह्य अहालंदमपीति, "अथ” इति अव्ययं निपातः, "लंदमिति” कालस्याख्या यथा-लन्दमपि-स्तोककालमपि अवग्रहे स्थातुं कल्पते, न बहिः, लंदकालमपि स्थातुं कल्पते तत्र उदकाः करो यावता कालेन शुष्यति तावान् कालो जघन्यं लंद, उत्कृष्टं पश्चा-1॥२४॥ होरात्रा, तयोः अन्तरे-मध्यमं, यथा-रेफप्रकृतिरपि अरेफप्रकृतिरपीति । एवं लंदमपि अवग्रहे स्थातुं कल्पते, अलंदं अपि यावत् षण्मासान् एकत्र अवग्रहे स्थातुं कल्पते । उपाश्रयात् सार्धक्रोशद्वयं चतसृषु दिक्षु ऊो For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy