SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (इति) पश्चादागत्य पर्वतमूल एव तप्तशिलायां सुप्तोऽनशनं कृत्वा सुकुमालशरीरत्वात् क्षणमेव शुभध्यानतः *स्वर्ग जगाम । देवैः तस्य महिमानं क्रियमाणं ज्ञात्वा साधवो विशेषतो धर्मे स्थिरा जाताः। परं तत्र मिथ्या दृष्टिदेव्या मोदकादिभिः निमश्रणेन अनशने कृते उपसर्गिताः। ततः तत्र तस्या अप्रीतिं ज्ञात्वा, ततः स्थानात् उत्थाय अन्यत्र आसन्नपर्वते अनशनं कृत्वा शुभध्यानेन सर्वेऽपि वज्रसामिप्रमुखाः स्वर्ग जग्मुः। ततः इन्द्रेण रथसहितेन गिरि प्रदक्षिणीकृत्य साधवो वन्दिताः, तेन तस्य पर्वतस्य उपरि रथचक्ररेखापतनात् “रथावर्त" इति नाम जातं । तत्रस्था वृक्षा अपि साधूनां नमनाभ्यासात् अद्यापि नम्रीभूता इव तिष्ठन्ति दृश्यन्ते |च तथैव । तस्मिन् वर्ग गते दशमपूर्व चतुर्थ अर्धनाराचं नाम संहननं च विच्छिन्नं । तथा तदनु श्रीवज्रसेनः सोपारके जिनदत्तश्रावकः, तस्य भार्या ईश्वरी, तत् द्वयमपि पूर्व श्रीवज्रस्वामिना प्रतिबोधितमासीत्, तस्य गृहे भिक्षार्थ गतः । तस्मिन् प्रस्तावे ईश्वरीश्राविकया चतुःपुत्रयुतया धान्याऽभावात् लक्षमूल्येन धान्यमानीय हण्डिका पाकाथ अग्नौ स्थापिताऽस्ति, विचारित-"मध्ये विषं क्षिप्त्वा धान्यभोजनेन अनशनं कृत्वा सपुत्रा अहं मरिष्यामि।" वज्रसेनेन विषं क्षिपन्ती दृष्टा, पृष्टं-"किमिति मरणोपायः क्रियते?" तया प्रोक्तं-"धनं बहु वर्तते, परं धान्यं नगरमध्ये न लभ्यते।” ततो वज्रसेनेन प्रोक्तं-"श्रीपूज्येन मम अभिज्ञानं लक्षमूल्येन * धान्यहण्डिकापाकरूपं प्रोक्तं वर्तते । आगामिदिने सुभिक्षं भावि ।" तस्या अपि श्रीपूज्यवचनस्य आस्था । ततः तया कथितं-"यदि एवं जातं, तदा मम पुत्राः चत्वारो वर्तन्ते, ते मया दत्ता भवतां पार्थं दीक्षा ग्रही For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy