SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ८ ॥ २२६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बौद्धश्रावक प्रेरितेन राज्ञा जैन चैत्येषु पुष्पाणि निषिद्धानि । सङ्घन वनखामी विज्ञप्तः- “मा चिन्ता क्रियतां” | इत्युक्त्वा आकाशगामिनीविद्यया आकाशे उत्पत्य माहेश्वरी पुर्या हुताशननामदेवस्य वने पितृमित्रं आरामिकं तडितनामानं पुष्पमेलनाय सावधानीकृत्य हिमवद्विरी प्राप्तः । तत्र श्रीदेव्या वन्दितः, तदानीं तया देवपूजार्थं पूर्व लक्षबलकमले आनीनं आसीत्, तदेव तथा दत्तं तत् गृहीत्वा पुनः पश्चात् बलमानेन हुताशनवनादपि विंशतिपुष्पलक्षाणि लात्वा आकाशे विमानं आरूढः प्राक्तनमित्रजृम्भिकदेवकृतगीतगानवादित्रादिमहोत्सवः आगत्य पुष्पलक्षाणि श्राद्धानां दत्त्वा चैत्येषु महिमां अकारयत् । हर्षितः सङ्घः चमत्कृतो राजा जातो जैनश्च । पुनः अन्यदा दक्षिणापथे विहरन श्रीवज्रखामी श्लेष्मणि जाते साधूनां अकथयत्- "अद्य गोचरीगमने शुष्ठिः आनेया ।” तैः आनीता गुरुभिः कर्णोपरि धृता, परं विस्मृत्या न भक्षिता, परं प्रतिक्रमणे [ प्रतिलेखनवेलायां ] कर्णप्रतिलेखने पतिता गुरुभिः विचारितं- “मम दशपूर्वश्वरस्य का विस्मृतिः ? ।” परं आयुः अल्पं ततोऽनशनं कृतं । द्वादशवर्षीयं दुर्भिक्षं ज्ञात्वा स्वशिष्यस्य वज्रसेनस्य प्रोक्तं- " त्वं सोपारकपत्तने याहि । 'कदा सुभिक्षं भावि ?' इति पृष्ठे- "यस्मिन् दिने लक्षमूल्येन एकां हण्डिकां पच्यमानां द्रक्ष्यसि तद्दिनात् अग्रिमदिने सुभिक्षं भविष्यति” इत्युक्त्वा मुक्तो वज्रसेनः । पश्चात् निजपार्श्वस्थितान् साधून भिक्षां अलभमानान् विद्यापिण्डेन कियद् दिनानि भोजयित्वा संविग्नान् पञ्चशतमितान् साधून आदाय अनशनार्थं वार्यमाणमपि अतिष्ठन्तं एकं लघुक्षुल्लकं अपि मोहात् विप्रतार्य पर्वतं आरोहयत् । क्षुल्लकस्तु " मा भूत् गुरूणां अप्रीतिः” For Private and Personal Use Only सिंहगिरि वज्र स्वाम्यादि सम्बन्धा ॥ २२६ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy