SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०८ ॥२२५॥ ततो धनगिरिः बहुस्त्रीजनान् साक्षिणः कृत्वा पुत्रं लात्वा झोलिकामध्ये क्षिस्वा समेतो गुरुपायें, गुरुणा च सिंहगिरिवज्रवत् भारत्वात् 'वन' इति नाम दत्तं, ततो न मरोद । शय्यातरश्राविकाभ्यः पालनार्थ दत्तः, स च। वज्रसाध्वीशालायां पालनस्थः षण्मासबयाः साध्वीभिः पठ्यमानानि एकादशाङ्गानि पपाठ । ततः सा पुत्रं स्वाम्यादि. त्रिवार्षिकं जातं ययाचे । राजसमक्षं सो मेलितः, राजाज्ञया गुरुभिः मुखबस्त्रिकारजोहरणादीनि साधूप- सम्बन्धः करणानि बालस्य अग्रे मुक्तानि । मात्रा तु सुखभक्षिका-कन्दुक-बालक्रीडनकानि मुक्तानि । गुरुणा प्रोक्तं"रजोहरणं गृहाण ।" मात्रा तु प्रोक्तं-"सुखभक्षिकादीनि । ततो वालेन चारित्रं वाञ्छता गृहीतं रजोहरणं मस्तके धृत्वा नृत्यति स्म । भग्नो वादः, अष्टवर्षान्ते गृहीता दीक्षा, पश्चात् मात्रापि दीक्षा गृहीता। पुनः यस्य पूर्वभवमित्रैः जृम्भकदेवैः महाटव्यां उज्जयिनीमार्गे वृष्टी निवृत्तायां कूष्माण्डभिक्षायां गृहस्थरूपैः दीयमानायां अनिमिषत्वादिना 'देवपिण्डः अयं इति निश्चित्य भिक्षाया अग्रहणे तुष्टः वैक्रियलब्धिः दत्ता। पुनः यस्य ग्रीष्मकाले घृतपूरैः परीक्षां कृत्वा आकाशगामिनी विद्या दत्ता २। पुनः अन्यदा बजमुनिः गुरुषु बहिभूमौ गतेषु साधुषु च विहाँ गतेषु साधुसंस्तारकवेष्टिका एकीकृत्य स्वयं विचाले स्थित्वा शिष्याणामिव एकादशानां अङ्गानां पृथक पृथक् वाचनां दातुं आरेभे । गुरुभिः द्वारे आगत्य स्थित्वा च सर्वे श्रुतं । ततः ॥२२५॥ साधूनां तस्य अतिशयज्ञापनार्थ अन्यदा ग्रामान्तरं गच्छद्भिः गुरुभिः प्रोक्तं-"भो शिष्याः! भवतां वाचनाचार्यों वज्रोऽस्ति" इत्युक्त्वा चलिताः । पश्चात् वजेण तेषां विनीतानां तथा वाचना दत्ता । यथा अनेक For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy