SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Haxoxoxoxoxoto**** |कौटिकी । पुनः किंविशिष्टौ कौटिककाकन्दको ?। काकन्द्यां नगर्या जातत्वात् काकन्दको इति विरुदप्रायं विशे-1 पणद्वयं ११ कौटिककाकन्दयोः व्याघ्रापत्यगोत्रयोः शिष्य इन्द्रदिन्नः कौशिक गोत्रीयः १२ इन्द्रदिन्नस्य शिष्यो गौतमगोत्रीयो दिन्ननामा जातः १३ दिन्नस्य शिष्यः कौशिकगोत्रीय आर्यसिंहगिरिः जातिस्मरो जातः १४ आर्यसिंहगिरेः शिष्यो गौतमगोत्रीयः श्रीवज्रखामी १५ श्रीवज्रस्वामिशिष्य उत्कौशिकगोत्रीयः श्रीवज्रसेनो जातः १६ वज्रसेनस्य चत्वारः शिष्याः स्थविरा जाता:-नागिलो १ पोमिलो २ जयन्तः ३ तापसश्च ४। एतेभ्यः चतुर्यः चतस्रः शाखाः स्वखनाम्ना निर्गताः-नागिला १ पोमिला २ जयन्ती ३ तापसी ४ इति २०। __ अत्र श्रीसिंहगिरि १ श्रीवज्रखामि २ श्रीवज्रसेन ३ सूरीणां संलग्नः सम्बन्धो यथा श्रीसिंहगिरिगुरोः पाद्यं सुनन्दाया भ्राता आर्यशमितो, भर्ता च धनगिरिः द्वौ अपि दीक्षां जगृहतुः । सुनन्दा च तदा तुम्बवनग्रामे गर्भवती मुक्ताऽभूत्, जातः पुत्रः। जन्मसमये एव पितुर्दीक्षां श्रुत्वा जातिमारणं ज्ञानं प्राप । ततो मातुरुद्वेगार्थ निरन्तरं रोदिति, चारित्राभिलाषी जातः। माता उद्विग्रा जाता सती |तिष्ठति, जानाति त्यजामि कचित् ददामि कस्मैचित् । तस्मिन् प्रस्तावे श्रीसिंहगिरिसूरयः समेताः धनगिरिः यदा विहर्तु निर्गतः तदा गुरुभिः लाभं ज्ञात्वा प्रोक्तं-"अद्य गोचरीगमने सचित्ता अचित्ता वा या भिक्षा लभ्यते सा ग्राह्या।" ततो धनगिरिर्गतः सुनन्दागृहे, सुनन्दा प्राह-"तव पुत्रेण सन्तापिताऽहं, गृहाण आत्मीयं पुत्रं ।” साधुना प्रोक्तं-"अद्य त्वं ददासि परं पश्चात् दुःखं करिष्यसि ।' तया प्रोक्तं-"नाऽहं करिष्यामि ।" For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy