SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir १ तृतीयप्रहरप्रान्ते २ पुरोलिखितं कुण्डलिकाया अन्तः ३ द्विपञ्चाशत् पलमितो मत्स्यः पतिष्यति ४ा" इति निमित्तं भाषितं, श्रुत्वा श्रावकैः श्रीभद्रबाहुस्वामिनः प्रोक्तं । गुरुणा प्रोक्तं-"किंचित् सत्यं, किञ्चित् असत्यं ।” कथं ? । ततो गुरुणा प्रोक्तं-"मेघो न पूर्वतः समेष्यति, किन्तु ईशानकोणतः, तृतीयमहरप्रान्ते न, किन्तु दिनघटीष शेषे सति । कुण्डलिकायां मध्ये न, किंतु किश्चित् बहिः, द्विपञ्चाशत्पलमानो न, किन्तु वायुना भक्षितत्वात् सार्धेकपश्चाशत्पलमानः तुलितो भविष्यति ।" भद्रबाहुविशेषज्ञाननिमित्तमपि राज्ञा श्रुतं । ततः पञ्जमदिने मेघवृष्टिः जाता। परं सर्व श्रीभद्रबाहुखामिवचनं सत्यं जातं, वराहमिहरः सत्यासत्यवादी लोकमध्ये जातः, भद्रबाहुखामी तु सत्यवादी जातः । पुनरेकदा राज्ञः पुत्रो जातः वराहमिहरेण वर्षशतायुर्वर्तनेन जन्मपत्रिका लिखिता। ततः सर्वेऽपि लोका अक्षतभाजनानि लात्वा वर्धापनाय राज्ञो गृहे * समेताः । एवं दर्श निनो लोका अपि आशी:प्रदानाय समेताः विना भद्रबाहुँ, ततो वराहमिहरेण राज्ञोऽग्रे प्रोक्तं-“हे राजन् । भवदीयपुत्रजन्मभद्रबाहोः न रुचितं, तेन न आगतः। एतत्वरूपं श्रावकैः भद्रबाहुखामिनः प्रोक्तं गुरुभिः प्रोक्तं-"वारं वारं कथं गम्यते ?, एकवारं यास्यामि, कथं एवं? ।" गुरुणा प्रोक्तं“अष्टमे दिने रात्री विलाडितो मरणं राजपुत्रस्य भावि” इति । राज्ञाऽपि एतत् वाक्यं श्रुत्वा बिलाडिकाप्रवेशनादौ यत्नशतं कृतं कारितं च । ततोऽष्टमे दिने दैवयोगात् दासीहस्तात् अर्गला पतिता बालकोपरि । मृतो बालकः। वराहोऽवदत्-"बिलाडिकातो न मृतः।" गुरुणा अर्गलायां बिलाडिकारूपं दर्शितं । ततो वराहो Fer Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy