SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०८ भद्रबाहुसम्बन्धः ॥२२०॥ पार्थे धर्म श्रुत्वा प्रवजिती, कमात् चतुर्दशपूर्वधरौ जाती। गुरुणा भद्रबाहोः विनीतत्वात् सूरिपदं ददे। वराहमिहरस्य तु अविनीतत्वात् न दत्तं । कथं? यतो यो गणधरशब्दो गौतमादिगणधरैः महापुरुषैः व्यूढः, तं शब्दं यो गुरुः कुपात्रे-अयोग्ये स्थापयति स गुरुः महापापी अनन्तसंसारी च स्यात् । ततो घराहमिहरो रुष्टः सन् गच्छात् बहिर्निर्गता, गुरोर्तेषं वहति स्म । चतुर्दशपूर्वभणनात् नवीनानि ज्योतिःशास्त्राणि करोति स्म । वाराहीसंहितानामा ग्रन्थो येन कृतः । साधुवेष मुक्त्वा द्विजवेषं कृत्वा निमित्तैः जीवति स । पुनः लोकानां अग्रे एवं कथयति-"भो लोकाः! मया एकदा नगरात् यहिः एकं लग्नं मण्डितमासीत् परं विस्मृत्या |लग्नं न भग्नं, गृहागतेन विचारित-"अहो! मम ज्ञानस्य विराधना जाता ।" ततः तं लग्नझं कर्तुं पुनरई तत्र स्थाने गतः-लग्नस्य उपरि तस्य अधिष्ठायकं सिंहं पुच्छाच्छोटकं कुर्वन्तं अपश्यं, तथापि लग्नभत्त्या साहसं कृत्वा लग्नोपरि हस्तक्षेपे कृते सिंहः सूर्यो भूत्वा प्राह-"भो वराहमिहर ! वरं वृणु, तुष्टोऽस्मि ।" तदा मया मोक्तं-"नक्षत्रादीनां चारं साक्षात् दर्शय ।" ततः तेन अहं सूर्यादीनां यत्र मण्डलानि तत्र नीतः, सर्व सर्वेषां ग्रहाणां चारोदयाऽस्तमनवक्रातिचारखरूपं दर्शितं । ततोऽहं सर्वज्योतिष्कबलेन अतीतानागतवर्तमानखरूपं जानामि ।" इति कथयन् राजादीनां चमत्कारदर्शनेन मनांसि रञ्जयामास । तस्मिन् नगरे श्रीभद्रबाहुखामी समागतः, श्रावकः प्रवेशोत्सवकरणादिना महती महिमा कृता । परं वराहमिहरो न सहति, तेषां माहात्म्यपातं वाञ्छति । ततो राजसभायां गत्वा राज्ञोऽग्ने प्रोक्तं-"इतः पञ्चमे दिने पूर्वतो मेघः समेष्यति ॥२२०॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy