SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता भारद्वाजगोत्रीयः, सोऽपि पञ्चशतश्रमणान् वाचयति ४, पञ्चमः सुधर्मस्वामी अग्निवेश्यायनगोत्रीयः सोऽपि स्थविरावली पञ्चशतश्रमणान् वाचयति ५, षष्ठो मण्डिकपुत्रो वासिष्ठगोत्रीयः, मण्डिकञ्चासौ पुत्रश्च धनदेवस्य मण्डिकपुत्रः, व्या० ८ केचित्तु एवं व्याख्यानयन्ति । मण्डित इति धनदेवस्य नामान्तरं तस्य पुत्रो मण्डितपुत्रः, सः सार्धत्रिशत ॥ २१६ ॥ श्रमणान् वाचयति ६, सप्तमो मौर्यपुत्रः काश्यपगोत्रीयः सोऽपि सार्धत्रिशतश्रमणान् वाचयति । अत्र मण्डिक १ मौर्यपुत्रयोः २ एकमातृकत्वेन भ्रात्रोरपि यत् भिन्नगोत्राभिधानं तत् पृथक जनकापेक्षया, यतो मण्डिकस्य पिता धनदेवो, मौर्यपुत्रस्य तु सूर्यः [मौर्येः] पिता, माता तु द्वयोरपि एकैव विजयदेवी, एवं विरोधोऽपि न, यतः तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिकरणे न दोषाय इति वृद्धाः ७ अष्टमोऽकम्पितो गौतमगोत्रीयः ८ अचलभ्राता नवमो हार्यायणगोत्रीयः, एतौ द्वावपि गणधरी त्रिशतश्रमणान् त्रिशतश्रमणान् वाचयतः ९ दशमो मेतार्यः एकादशमः प्रभासः, एतौ द्वावपि कौण्डिन्य गोत्रीयौ त्रिशतश्रमणान् त्रिशतश्रमणान् ३०० वाचयतः ११, तेन कारणेन नव गणा एकादश गणधराश्व, एतेषां परिवारः इयान् जातः - चत्वारः सहस्राः चतु:शतानि च (४४०० ) । एते एकादश गणधराः कीदृशाः १, इत्याह-एते सर्वेऽपि गणधराः वृद्धा द्वादशाङ्गिनःआचारांगादिदृष्टिवादान्तश्रुतवन्तः । कथं ? । स्वयं तेषां प्रणयनात् । पुनः कीदृशाः । चतुर्दशपूर्विणः, पूर्वाणां अङ्गान्तर्गतत्वेऽपि पूर्वं प्रणयनात् अनेकविद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच्च प्राधान्यख्यापनार्थं पुनः उपादानं । पुनः कीदृशाः । । द्वादशाङ्गित्वं सूत्रमात्रेऽपि स्यात्, अत आह- समस्तगणिपिटकधारकाः = गणोऽस्या For Private and Personal Use Only | ॥ २१६ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy