SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं XI अथ श्रीआदिनाथस्य पञ्चकल्याणकानि कथ्यन्ते । तत्र श्रीआदिनाथस्य त्रयोदश भवाः प्रथम कथ्यन्ते । आदिकल्पलता धण १ मिहुण २ सुर ३ महत्वल ४ ललियंग य ५ वयरजंघ ६ मिहुणो अ सोहम्म ८ विजू ९ अचू य १०1* नाथस्य व्या०७ चक्की ११ सबठ्ठ १२ उसमे अ १३ ॥१॥ जम्बूद्वीपे पश्चिममहाविदेहक्षेत्रे सुप्रतिष्ठितनामनगरे प्रियङ्कर- त्रयोदश ISIनामा राजा राज्यं करोति । तत्र नगरे धनसार्थवाहः, स एकदा वसन्तपुरे गमनाय साथ मीलयति स्म । तदा ॥१९१॥ मवाः श्रीधर्मघोषसूरयोऽपि वसन्तपुरे गन्तुकामा धनसार्थवाहं पृच्छन्ति मा । धनसार्थवाहेन प्रोक्तं-“आगच्छन्तु।" तस्मिन् प्रस्तावे केनचित् आम्रफलानि सार्थवाहस्य अग्रे दौकितानि । ततः तानि धनसार्थवाहेन सूरीणां दातुं प्रारब्धानि । ततो गुरुभिः ४२ द्विचत्वारिंशत् आहारस्य दोषाः प्ररूपिताः। "एतानि सचित्तानि फलानि, ततः साधुभिर्न गृह्यन्ते ।" इत्युक्त्वा न गृहीतानि । ततो धर्मघोषसूरयः सार्थेन सह चलिताः। वर्षाकाले वृष्टियोगात् सार्थो मार्गे स्थितः । बहुभिः दिनैः शम्बलं क्षीणं, ततो लोकाः पुष्पफलादिना आजीविका कुर्वन्ति । श्रीधर्मघोषसूरयस्तु एकान्ते धर्मध्यानं कुर्वन्तः तिष्ठन्ति । ततो बहुवर्षाकाले गते धनसार्थवाहेन पश्चिमरात्री साधवः स्मृताः-"अरे! अदव्यां तिष्ठतां बहुदिनानि जातानि, शम्बलं सर्वेषां क्षीणं । ततो न कोऽपि तेषां आहारदाता, न च ते सचित्तं पुष्पफलादि गृह्णन्ति । ततः कथं ते प्राणवृत्तिं कुर्वन्ति । मया तु सार्थे गृहीताः, परं न तेषां चिन्ता कृता । अथ कथं तेषां मुखं दर्शयामि।" (इति) लजितोऽपि प्रभाते साधूनां वन्दनार्थे गतः । साधुगुणान् दृष्ट्वा, धर्मोपदेशं श्रुत्वा अपराधं क्षामयित्वा, आहारार्थ निमच्य खस्थाने For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy