SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XCXGXCXXX XX • X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यादव मारणार्थं चदन्तं जरासन्धं नृपं निवार्य, कालककुमारः पञ्चशतकुमारसहितः प्रतिज्ञां कृत्वा, यादवकेटके चटितः । अत्यासन्नमागतं कालककुमारं ज्ञात्वा यादवानां रक्षणाय यादवकुलदेवी स्थविरारूपं कृत्वा मार्गे चितानां सहस्रं कृत्वा मार्गे उपविष्टा सती रोदितुं लग्ना । कालककुमारेण प्रोक्तं- "हे स्थविरे । काऽसि त्वं १, किं तव दुःखं १, कथं च रोदिषि ।” ततः सा स्थविरा प्राह-"अहं यादवानां कुलदेवी, यादवाश्च कालककुमारागमनं श्रुत्वा अग्रे गन्तुं असमर्था एतासु चितासु प्रविश्य ज्वलिता मृताः । अथ मम कः पूजां करिष्यति ? इति हेतोः रोदिमि । अहमपि चितायां प्रविक्ष्यामि ! किं दुःखदग्धया स्थितया मया ।" ततः कालककुमारोऽपि अज्ञानात् तान् कर्षितुं रोषात् चितायां प्रविष्टो मृतश्च । ततो यादवा निर्भयाः सन्तः चलिताः, यत्र स्थाने सत्यभामा पुत्रयुग्मं प्रसूता, तत्र सर्वेऽपि स्थिताः । श्रीकृष्णेन सुस्थितनामा लवणसमुद्राधिपतिः देव आराधितः, उपवासत्रयेण स देव आगत्य, कौस्तुभरत्नं पाञ्चजन्यशङ्खं च प्राभृतीकृतवान् । ततः कृष्णेन प्रोक्तं- “भो ! देहि नवभवासुदेवाय भग्नाय आगताय स्थानं पूर्वरीतिव्यवस्थां च पालय ।" ततः 'ओम्' इति भणित्वा इन्द्रो विज्ञप्तः । इन्द्रेण च धनदपार्श्वात् नवीनां द्वारकां कृत्वा, कृष्णाय समर्पिता । कीदृशी सा द्वारका ? | द्वादशयोजनानि दीर्घा, नवयोजनानि पृथुला, यस्याः वप्रो नवहस्तोचो नवहस्तो भूमिगतो द्वादशहस्तः पृथुलः सर्वस्वर्णमयो रत्नकपिशीर्षः सार्धदिनत्रयं यावत् रत्नसुवर्णमणिमाणिक्यविविधवस्त्रविविधाभरणविविधवान्यादिसर्ववस्तुवृष्टिकरणेन धनदेन भृता नगरी, सप्तभौमिकाऽष्टादशभौमिकैकविंशति भौमिकैः आवासैः For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy