SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ६ ॥ १७६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वारे चम्पक- पद्मोत्तरनामानौ गजौ हतवन्तौ । ततः कंसेन प्रोक्तं- "यः चाणूर - मौष्टिकनामानौ मल्लौ जयति तस्मै अहं स्वकीयां- खसारं सत्यभामां ददामि ।” ततः तद्वचनश्रवणेन उत्कण्ठिताभ्यां ताभ्यां सह युद्धं कुर्वाणाभ्यां तौ मल्लौ हतौ । ततो भीतेन कोपं कृत्वा कंसेन प्रोक्तं-"अरे ! एतौ कृष्णसर्पों केन पोषितौ ? ” केनापि प्रोक्तं- "नन्देन ।” कंसः प्राह-"अरे! आनीयतां स नन्दः यथा शिक्षां ददामि।” ततः कृष्णेन कंसो मचात् भूम्यां पातयित्वा हतः । उग्रसेनेन स्वपुत्री सत्यभामा त्रिंशतवर्षीया ३०० षोडशवार्षिकाय कृष्णाय परिणायिता । श्रीसमुद्रविजयरामकृष्णैः उग्रसेनो राजा काष्ठपञ्जरात् निष्कास्य, मथुराराज्ये स्थापितः । जीवयशा कंसपत्नी च रुदन्ती राजगृहनगरे खपितृश्रीजरासन्धपार्श्वे गत्वा जरासन्धनृपाय सर्वोऽपि कंस| मारणवृत्तान्तः कथितः । जरासन्धप्रतिवासुदेवेन प्रोक्तं- "हे वत्से ! स्वस्था भव, दुःखं मा कुरु, सर्व भव्यं भविष्यति ।" ततो जरासन्धनृपेण सोमकनृपो निजदृतो यादवपार्श्वे मुक्तः, कथापितं च- “भो यादव - राजानः ! भव्यं कृतं मम जामाता कंसो हतः, मम पुत्र्या वैधव्यं दत्तं, अथ ज्ञास्यते ततो यादव भूपाः सर्वेऽपि भयभ्रान्ता जाताः । ततः समुद्रविजयो राजा कृष्ण-बलभद्र - श्रीनेमिक्कुमारादिसहितः शौरिपुरनगरात् एकादशकुलकोटी, उग्रसेनो राजा सप्तकुलकोटीः मधुरात एवं अष्टादशकुलकोटी: यादवानां लात्वा, पश्चिमदिशि गन्तव्यं, यत्र सत्यभामा भानु-भ्रमरनामकं पुत्रयुगलं जनयति तत्र स्थातव्यं । तत्र भवतां जयो भावी ।" इति नैमित्तिकवचनं श्रुत्वा, चलिताः पश्चिमां दिशमुद्दिश्य । तस्मिन् प्रस्तावे कोपाक्रान्तं For Private and Personal Use Only कृष्णेन कंसहननं ।। १७६ ।।
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy