SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ६ ॥ १६९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुव्रतप्रमुखाः श्रमणोपासकाः श्रावका एक लक्षं चतुःषष्टिश्च सहस्राः (१,६४००० ) अभूवन् । पुनः श्रीपार्श्वनाथस्य सुनन्दाप्रमुखाः श्राविकाः त्रीणि लक्षाणि सप्तविंशतिश्च सहस्राः (३,२७०००) अभूवन् । पुनः श्रीपार्श्वनाथस्य सार्धानि सप्तशतानि (७५०) चतुर्दशपूर्विणः केवलिन इव अभूवन् । पुनः श्रीपार्श्वनाथस्य चतुर्दशशतानि ( १४०० ) अवधिज्ञानिनः । पुनः दशशतानि (१०००) केवलज्ञानिनः । पुनः एकादशशतानि (११००) वैक्रियलब्धिधराः । पुनः षट्शतानि ( ६०० ) ऋजुमतयः साधवः । पुनः दशशतानि ( १००० ) सिद्धानि साधूनां । पुनः विंशतिशतानि (२०००) साध्वीनां सिद्धानि । सार्थानि सप्तशतानि ( ७५० ) बिपुलमतीनां सिद्धानि । ऋजुमति- विपुलमतीनां विशेषः पूर्व उक्तोऽस्ति । षट्शतानि (६००) वादिनां । पुन: द्वादशशतानि ( १२०० ) अनुत्तरोपपातिनां साधूनां । पुनः श्रीपार्श्वनाथस्य द्विविधा अन्तकृतां केवलिनां भूमिः, स्थानं= युगान्तकर भूमिः पर्यायान्तकर भूमिश्च । तत्र श्रीपार्श्वनाथात् आरभ्य चतुर्थं पुरुषयुगं यावत् सिद्धिगमः प्रवृत्तः स युगान्तकर भूमिः । अथ च श्रीभगवतः केवलज्ञानोत्पत्तेः पश्चात् त्रिषु वर्षेषु सिद्धिगमारम्भो जातः, स पर्यान्तकरभूमिः ॥ अथ च श्रीभगवतः कदा निर्वाणकल्याणं जातं ?, तत्राह तेणं काणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता For Private and Personal Use Only भगवतो निर्वाण कल्याण समयः ॥ १६९ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy