SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir IMI कल्पसूत्रं कल्पलता व्या०६ ॥१६२॥ विचरन् मिलपलयां गतः। तत्र कमठजीवोऽपि संसारं भ्रान्त्वा मिल्लत्वेन उत्पन्नोऽस्ति । संसारभ्रमणं विना पार्श्वनाथख पञ्चसागरोपमान्तरं न मिलति । यतः श्रीपार्श्वनाथचरित्रेऽपि भवक्रमादिति हि प्रोक्तं, तथाहि दशमवार "अहिजीवोऽपि नरका-दुद्वत्याभूद्भवक्रमात् [भवं भ्रमन् ] । ज्वलनाद्रौ सुकच्छस्थे-भिल्लो नान्ना कुरङ्गका ॥१०९५॥" [स. ३] इति तेन भिल्लेन आखेटकार्थ गच्छता निजगृहात् निर्गतेन प्रथम स साधुः सम्मुखं आगच्छन् दृष्टः, “अपशकुन" इति विचार्य, बाणेन हतो मृतः॥ इति षष्ठो भवः॥ ६॥ ततः साघुः समाधिना मृत्वा, मध्यमवेयके देवो जातः। भिल्लोऽपि महापापी ससमनरके उत्पन्नः ॥ इति सप्तमो भवः ॥७॥ अथ मरुभूतिजीवो देवो मध्यमवेयकात् च्युत्वा, महाविदेहक्षेत्रे सुवर्णयाहुनामा चक्रवर्ती जातः । षट्खण्डराज्यं पूर्व भुक्तवा, प्रान्ते वैराग्यात् राज्यं त्यक्त्वा दीक्षा जग्राह । चतुर्थषष्ठाष्टमादितपः कुर्वन् शितिस्थानकानि सेवित्वा, गिरिगहने विहरति स्म । तत्र तदवसरे कमठजीवोऽपि यो भिल्लः अभूत् स नरकात् निःसृत्य, सिंहो जातोऽस्ति । स सिंहः तं साधुं दृष्ट्वा पूर्ववैरात् क्रोधेन विदारितवान् ॥ इति अष्टमो भवः ॥ ८॥ ततः साधुः समाधिना मृत्वा प्राणते दशमे देवलोके देवो जातः । साधुविदारकः सिंहस्तु चतुर्थे नरके नारकी जातः ॥ ॥१६ ॥ इति नवमो भवः ॥९॥ अथ मरुभूतिजीवो दशमदेवलोकात् च्युत्वा, श्रीपार्श्वनाथो जातः । कमठजीवः * कठो नाम तापसो जातः । द्वयोः संवन्धः सूत्रे वृत्तौ च अग्रे कथयिष्यते इति दशमो भवः ॥१०॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy