SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मां च निस्तारय।" ततः स्वामिना उपयोगो दतः, ममाभिग्रहश्चतुर्विधोऽपि पूर्णी जातो दृश्यते द्रव्यक्षेत्रकालभावैः, परं नो रोदितीति निवृत्तः प्रभुः, तदा चन्दना दुःखात् रोदितुं लग्ना । ततः श्रीभगवता कुल्मा पाहारो गृहीतः, देवैः पञ्चदिव्यानि प्रकटितानि । सार्धद्वादशवर्णकोटिवृष्टिः जाता। निगडाः वर्णमयीबाभूय पतिताः। मस्तके वेणी पूर्वावस्था जाता। राज्ञा आगत्य प्रोक्तं-“हे पुत्रि! इदं धनं वसुधारावर्षणरूपं त्वं गृहाण, गृहं मण्डय।" चन्दना प्राह-"मम पत्या प्रयोजनं नास्ति, अहं दीक्षा ग्रहीष्ये ।" तावता तत्र संपुलो नाम दधिवाहनस्य कञ्चकी चन्दनापादयोः निपत्य प्ररुन्न:-"कथं मृगावत्या भगिनी पद्मावती सा दधिवाहनेन परिणीता?" धारिणी च पद्मावत्याः सपत्नी इति हेतोः धारिण्यपि मृगावत्याः भगिन्येवेति, तयापि मृगावत्या मम भगिनीसुता एषा इति उपलक्षिता। ततः इन्द्रेण आगत्य, चन्दना शतानीकस्य समर्पिता, कधितं च-"भव्यरीत्या रक्षणीया। यावत् श्रीभगवतः केवलज्ञानं नोत्पद्यते । ततः एषा श्रीभगवत्पार्चे दीक्षा लास्यति, केवलज्ञानमपि शीघ्रमेव भावि ।" अत्र श्रीभगवता पञ्चदिनैः ऊनया षण्मास्या भिक्षा लब्धा ११, ततः श्रीभगवान् द्वादशचतुर्मासी चम्पायां स्थितः १२, ततः त्रयोदशचतुर्मास्यां वडग्रामे बहिःकायोत्सर्गे स्थितस्य श्रीभगवतः कर्णयोः कांस्यशलाके गवां अदर्शने गोपः चिक्षेप, ते च मिथो मिलिते तदने छित्वा, अदृश्ये चकार । स गोपः पूर्वभवे शय्यापालकोऽभूत्, यस्य कर्णयोः त्रिपृष्ठवासुदेवेन महावीरजीवेन X तप्तं वपु क्षिप्तमासीत् । ततः श्रीभगवान् वेदनाक्रान्तोऽतिदुर्बलो मध्यमपापायां सिद्धार्थवाणिग्गृहे गतः। तेन XXXXXXXXXXXX कल्प०२५ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy