SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ श्रीभगवतो गङ्गापुलिने चक्राङ्कुशादिलक्षणचिन्हितानि पादयोः पदानि दृष्ट्वा, कोऽपि सामुद्रिकः पुरुषः पदानुयायी भगवत्समीपे समागतो, भगवन्तं निर्ग्रन्थं दृष्ट्वा विषादं प्राप्तः, चित्ते चिन्तयितुं लग्नः - "अहो ! मया लक्षणानुसारेण ज्ञातमासीत्, अयं चक्रवर्त्यादिः महापुरुषः कोऽपि भावी, मम दारिद्र्यं चूरयिष्यति ।" ततः इन्द्रेण आगत्य प्रोक्तम्- “भो सामुद्रिक ! अयं धर्मचक्रवर्ती सुरासुरनमस्कृतः, एतस्य पादरजोऽपि दारिद्र्यं हरति" इति भणित्वा, इन्द्रेण बहुधनकनकरत्नप्रदानसन्तोषेण [ संतोषितः ] आशा पूरिता । अथ श्रीभगवान् आषाढचतुर्मास्या अर्धमासादनन्तरं अस्थिग्रामे गतः । तत्र प्रथमचतुर्मास के शूलपाणियक्षायतने स्थितः, स च यक्षो रौद्रस्वभावः, कस्यापि मानवस्य रात्रौ वासं न ददाति, कदाचित् कोऽपि वसति तदा तं मारयति । श्रीभगवता इन्द्रशर्मनामयक्ष पूजकपार्श्वात् रात्रौ वासः प्रार्थित:, तेन प्रोक्तम्- "सर्वग्रामलोकानां आज्ञां लाहि" भगवता ग्रामलोकाः पृष्टाः सन्तः, स्वकीयां खकीयां वसतिं ददति, परं यक्षायतनस्य न, कुतः, तस्य क्रूरत्वात्, ततो श्रीभगवानेव ग्रामलोकान् अनुज्ञाप्य यक्षप्रतिबोधनार्थं प्रासादकोणे स्थितः, चतुर्मास्यां रात्रौ न स्थातव्यं इति ग्रामलोकैः निवारितोऽपि । अथ अस्थिग्रामस्य उत्पत्तिः कथ्यते धनदेवसार्थवाहस्य धौर्यो वृषभोऽभूत्, ग्रीष्मे नद्यां बहुवालुकायां अन्ये वृषभाः शकटोत्तारणे असमर्था जाताः । ततः एकेनापि स्वामिना प्रशंसितेन पञ्चशत (५००) शकदानि उत्तारितानि, परं त्रुटितः, ततो धनसार्थवाहेन चारि(तृण) पानीयनिमित्तं वर्धमानग्रामवास्तव्यानां वृद्धश्रेष्ठिणां बहु द्रव्यं दत्त्वा प्रोक्तम्- "एतस्य वृषभस्य सारणा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy