SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०५ वीरस्य प्रतिबन्धाभाव: ॥१३७॥ खरूपे अग्रीतिमात्रे, अथवा रागः-सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधनेऽपि अभिरमते विषयो गर्ध: प्रेम तस्मिन्, द्वेषो-दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखेतत्साधने च अप्रीतिः तत्र, कलहे-असत्यवचनराठ्यादौ "अब्भक्खाणे चा" अभ्याख्याने-असदोषाविष्करणे, पैशून्ये-प्रच्छन्नं असदोषाविष्करणे, पुनः परपरिवादेविप्रकीर्ण परदोषवचने, अरतिः मोहनीयोदयाचित्तोद्वेगफला, रतिः-मोहोदयाञ्चित्ताभिरतिः समाहारेअरतिरतिः तत्र, मायामुषे मायामोषे वा-वेषान्तरभाषान्तरकरणेन परवञ्चनं, मायया सह मृषा मायामृषा, मायया वा मोषो मायामोषः तस्मिन् , मिथ्यादर्शनं-मिथ्यात्वं शल्यमिव अनेकदुःखहेतुत्वात् । तत्र एवं अमुना प्रकारेण तस्य भगवतो न भवति प्रतिबन्ध इति प्रकृतं । वर्षासु-प्रावृषि वासो-वर्षावासः तद्बर्ज अष्ट-1 मासान् ग्रैष्महैमन्तिकान् , ग्रामे एकरात्री वासमानतया अस्ति यस्य स एकरात्रिका, एवं नगरे पञ्चरानिकः, वासीचन्दनयोः प्रतीतयोः, अथवा वासीचन्दने इव वासीचन्दने अपकारोपकारयोः समानो निद्वेषरागत्वात् , कल्पो-विकल्पः समाचारो वा यस्य सः। पुनः कीदृशः? । समानि-तुल्यानि उपेक्षीयतया तृणादीनि | मणिलोष्टकांचनानि यस्य सः। पुनः कीदृशः। समसुखदुःखः। पुनः कीदृशः?। इहलोके परलोके च अप्रतियः। पुनः जीविते मरणे च निरवकाङ्कः। पुनः कीदृशः १ । संसारपारगामी । पुनः कीदृशः। कर्मशत्रुनिर्घातनाय अभ्युत्थितः। “एवं च णं विहरई" इति । एवं र्यासमित्यादिगुणयोगेन विहरति आस्ते इति ।। ॥१३७॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy