SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ५ ॥ १०७ ॥ -*****CX X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिष्ठन्ति-रूपा १, रूपासिका च २, रूपकावती ३, सुरूपा ४ एता आगत्य, जिनं जिनमातरं च नत्वा, भगवतो नालं चतुरङ्गुलतः छित्त्वा खातोदरे क्षिपन्ति स्म । पश्चात् तं खातोदरं वैडूर्यरत्नैः पूरयित्वा तस्योपरि दुर्वया बद्धं पीठं चक्रुः ५६ । ततो जन्मगृहात् पूर्वस्यां १, दक्षिणस्यां २, उत्तरस्यां ३ च दिशि केलिगृहत्रयं चक्रुः । ततो दक्षिणकेलिगृहे भगवन्तं भगवतो मातरं च नीत्वा द्वयोः अपि अभ्यङ्गं कुर्वन्ति स्म । ततः पूर्वकेलिगृहे नीत्वा स्नानं कारयित्वा विलेपनवस्त्रालङ्काराणि परिधापयामासुः । तत उत्तरकेलिगृहे अरणिकाष्ठाभ्यां अग्निं उत्पाद्य, चन्दनैः होमं कृत्वा, रक्षापोहलिकां द्वयोः हस्तयोः बबन्धुः । ततो 'हे भगवन् ! त्वं पर्वतायुः भव !' इति आशिषं दत्त्वा, अश्मगोलको कर्णयोः आस्फाल्य, जन्मस्थाने जिनं जिनमातरं च नीत्वा, स्वखदिक्षु स्थित्वा, गीतानि गायन्ति स्म । एताश्च षट्पञ्चाशत् ५६ दिकुमार्यः प्रत्येकं त्रित्रिसहस्र महत्तरादेवीभिः, चतुः| सहस्रसामानिकदेवीभिः, षोडशसहस्रैः अङ्गरक्षकदेवैः सप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिः, अन्यैः अपि महर्द्धिभिः देवैः सहिताः आभियोगिक देवकृतैः योजनप्रमाणैः विमानैः अत्र आयान्ति । ततो भगवतो जन्मोत्सवं पूर्वविधिना कृत्वा, कृतार्थतां मन्यमानाः खखस्थानेषु गताः ॥ -→→ || इति षट्पंचाशत् - दिकुमारीकृत-जन्मोत्सवः ॥- For Private and Personal Use Only ToXXoxo) दिक्कुमारी कृत जन्मोत्सवः ॥ १०७ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy