SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -01-01-06 कल्पसूत्रं चन्द्रिकया ध्वस्त कल्पलता ॥ १०३ ॥ रजोवृष्ट्याद्यभावात् शान्तासु । पुनः वितिमिरासु भगवजन्मकाले सर्वत्र उद्योत भावात्, ध्वान्तासु वा, विशुद्धासु उल्कापात दिग्दाहाद्यभावात् निर्मलासु दिक्षु सत्सु । पुनः सर्वशकुनेषु काकोव्या० ४ * लपोतक्यादिषु, “जइएस ति" जयोऽस्यास्ति एषु । जयिनो राजादीनां जयदायिनः तेषु । पुनः मारुते वाय "पयाहिणत्ति" प्रदक्षिणश्चासौ अनुकूलश्च भगवतः प्रदक्षिणवाहित्वात् अनुकूलः तस्मिन्, अथवा प्रदक्षिणः प्रदक्षिणावर्तत्वात्, अनुकूलः सुरभिशीतलत्वात् । पुनः किंविशिष्टे मारुते ? । भूमिसर्पिणि मृदुत्वात्, चण्डवातो हि उच्चैः सर्पति, तादृशे बाते प्रवातुं आरब्धे, “निष्पन्ना" पुनः एवंविधे काले ऋतौ । किंविशिष्टे काले ?। निष्पन्नसर्वशस्या मेदिनी यत्र स तस्मिन् । पुनः 'जनपदेषु' जनपदवास्तव्यलोकेषु एवंविधेषु सत्सु । किंविशिष्टेषु जनपदेषु ? । प्रमुदिताः सुभिक्षसौख्यादिना प्रक्रीडिताः वसन्तादिषु क्रीडितुं आरब्धाः, ततो विशेषणकर्मधारयः तेषु । अत्र बहुषु आदर्शेषु “उच्चद्वाण" इत्यादि न दृश्यते । पुनः " पुवरत्तेति" अर्धरात्रे हस्तोतरानक्षत्रे उत्तरफाल्गुनीनक्षत्रे चन्द्रेण सह वर्तमाने, “आरोग्गा" अनाबाधा माता "आरोग्गं" अनावाधं "दारयं पयाया" दारकं पुत्रं प्रजाता= सुषुवे । 'जनि' धातुः सोपसर्गत्वात् सकर्मकः इति ॥ भगवतश्च मध्यरात्रे जन्मभावात् तदा च मकरलग्नस्य संभवात् प्रथमायां चान्द्रयां होरायां 'समराशौ चंद्रतीक्ष्णांशोरिति वचनात्' | अन्यथा वा सुधिया वृद्धोपदेशात् भावनीयम् । इति संदेहवि० ॥ - इति श्रीमहावीरदेवस्य जन्मकल्याणकम् - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only भगवतो जन्म कल्याणकं 11203 11
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy