SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ४ ॥ ९७ ॥ xoxoxoxoxoxo www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिशला ? | आर्तध्यानेन उपगतान्याप्ता । पुनः किंविशिष्टा त्रिशला ? । भूमौ गता दृष्टिः यस्याः सा । भूमिमुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा घ्यायति । पुनः तदपि सिद्धार्थराजवरभवनं कीदृशं जातम् ? । "उवरयेत्ति" उपरतं-निवृत्तं मृदङ्गतश्रीतलतालैः प्राग्व्याख्यातैः, नाटकीयैः = नाटकहितैः जनैः = पात्रै: “मणुजंति" भावप्रधानत्वानिर्देशस्य मनोज्ञत्वं चारुता यस्मात् । अथवा उपरतं मृदङ्गतत्रीतलतालनाटकीयजनं " अणुज्झंति" अनूर्ज अनोजस्कं वा, अत एव दीनं विमनस्कं विहरति आस्ते । एवंविधे व्यतिकरे जाते सति सा त्रिशला कीदृशं दुःखं करोति स्म ?, तदाह 'अहो ! यदि मम गर्भं गतः, तदा नूनं अहं अभाग्या निःपुण्या ! । यद्वा अभाग्यस्य गृहे चिन्ता - मणिरत्रं कथं तिष्ठति ?, । अथवा दरिद्रस्य गृहे निधानं कथं प्रकटी भवति ?, । अथवा कल्पवृक्षो मरुस्थले कथं चिरं अवतरति ?, । 'नहि कदापि निःपुण्यानां तृषितानां अमृतपानेच्छा पूर्णा भवति ।' पुनः प्राह-रे दैव ! धिक् त्वाम् रे निर्घृण !, रे निर्दय !, रे निःकरुण ! रे पापिष्ठ !, रे दुष्ट !, रे निःकृष्ट !, रे अशिष्ट !, रे निठुर !, रे पापकर्मकारक !, रे निरपराधजनमारक !, रे मूर्तिमत्पातक !, रे विश्वस्तजनघातक !, रे अकार्यसज्ज !, रे निर्लज्ज !, किं निष्कारणं मम बैरी जातः ? । तव मया किं अपराद्धम् । प्रकटीभूय निवेदय । त्वया मम | मनोरथकल्पवृक्षः समूलं उन्मूलितः ! । त्वयाऽहं दुःखानां खानिः कृता ।। त्वया मम लोचने दत्त्वा गृहीते, त्वया मम निधानं हस्ते दत्त्वा उद्दाल्य गृहीतं ।। त्वया अह मेरोः शित्वरं आरोप्य भूमौ पातिता 1, । स्वया For Private and Personal Use Only गर्भनिश्चलत्वे त्रिशला शोकः ॥ ९७ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy