SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एस मे गब्भे पुदि एयइ, इयाणि नो एयइत्तिक? ओहयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयलपल्हत्थमुही अदृज्झाणोवगया भूमीगयदिट्ठिया झियायइ, तंपि य सिद्धत्थरायवरभवणं उवरयसुइंगतंतीतलतालनाडइज्जजणमणुज्जं दीणविमणं विहरइ ॥ ९२ ॥ व्याख्या-"तएणं" त्ति ततः श्रमणो भगवान् महावीरो मातुरनुकम्पार्थ कृपया मातरि वा भक्तिः, तदर्थ मयि परिस्पन्दमाने 'मा मातुः कष्टं भूयात्' इति मातरि वा भक्तिः अन्येषां विधेयतया दर्शिता भवविति । निश्चलः चलनाभावात् । निस्पन्दो जातः किंचिचलनस्थाप्यभावात् । अत एव निरेजना=निष्कम्पः, अत एव गुप्तः, परिस्पन्दनाभावात् । ततो विशेषणकर्मधारयः । वाऽपीति समुच्चये । ततः त्रिशलाक्षत्रियाण्याला अयं एतद्रूपो मनसि सङ्कल्पः समुदपद्यत । तद्यथा-मे मम स गर्भो हृतः केनापि देवादिना मृतो वा ? कालधर्म प्राप्तः, च्युतः सजीवपुद्गलपिण्डतालक्षणात् पर्यायात् परिभ्रष्टो?, गलितो-द्रवतामापद्य क्षरितः । चतुर्वपि पदेषु काका विकल्पप्रतीतिः । एष मे गर्भः पूर्व एजति-कंपते । इदानीं नो एजति, इति कृत्वा त्रिशला चिन्ताशोकसागरं प्रविष्टा । चिन्तया-गर्भहरणादिध्यानेन यः शोकः स एव सागरः तत्र संप्रविष्टा । किंविशिष्टा त्रिशला ? | "ओहयमणसंकप्पा" उपहतः कालुष्यकवलितो मनःसङ्कल्पो यस्याः सा । पुनः किंविशिष्टा त्रिशला ? । “करयलेत्ति" करतले पर्यस्तं-निवेशितं मुखं यया सा। पुनः किंविशिष्टा कल्प०१७ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy