SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०४ पुत्रप्राप्तिफलश्रवणं तेभ्यः प्रत्युत्तरं च ॥ १० ॥ प्रभूतधनप्राप्तिः भवेत् । पुनः यो गर्दभं उष्टुं महिषीं महिषं वा एकाकी खप्ने अधिरोहति, तस्य शीघ्रं मृत्युः | स्यात् । पुनः यं पुरुषं चेतवस्त्रधरा श्वेतगन्धावलेपना नारी आलिङ्गपति, तस्य सर्वतोमुखी लक्ष्मीः भवति । पुनः या रक्तवस्त्रधरा कृष्णगन्धावलेपना नारी आलिङ्गयति तस्य रक्तहानिः जायते । परं या स्त्री गजादीनि चतुर्दशस्खप्नानि पश्यति, तस्याः पुत्रः चक्रवर्ती तीर्थङ्करो वा भवेत् । पुनः स्वमनिदानानि नव-श्रुतं १ अनुभूतं २ प्रदर्शनं ३ सजलस्थानं ४ चिन्ता ५ प्रकृतिविकार ६ देव ७ पुण्य ८ पापानि ९। आद्यानि पद निष्फलानि, अन्त्यं च त्रयं सफलं शुभाशुभं ददात्येव । पुनः रतिहासशोककोपउत्साहजुगुप्साभयक्षुधातृषामूत्रविष्ठापीडोत्पन्नः स्वमो निष्फलः। पुनरपि प्रथमे प्रहरे दृष्टः स्वमो वर्षेण फलति १, द्वितीये प्रहरे षड्भिः मासैः फलति २, तृतीये प्रहरे दृष्टः त्रिभिः मासैः फलति ३, चतुर्थे प्रहरे एकमासेन फलति ४, रात्रिप्रान्ते घटिकाद्वये दृष्टो दशदिवसैः फलति ५, सूर्योदयवेलायां दृष्टः स्वप्नः शीघ्रमेव फलति, न विलंबो भवेत् । अथ सिद्धार्थो राजा स्वमलक्षणपाठकेभ्यः पुत्रप्राप्तिफलं श्रुत्वा, किं अवादीत् , तत्र पाहतए णं सिद्धस्थे राया तेसिं सुमिणलक्खणपाडगाणं अंतिए एयमढे सोचा निसम्म हटे तुढे चित्तमाणंदिते पीयमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए करयल जाव ते सुमिणलक्खणपाडगे एवं वयासी ॥ ८१ ॥-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया !, For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy