SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यको धर्मवरचक्रवर्ती भविष्यति । ततो हे देवानुप्रिय ! त्रिशलाक्षत्रियाण्या प्रधानाः शुभाः स्वमाः दृष्टाः । पुनः खमविचारोऽप्येवम्-हे राजेन्द्र ! धातुमकोपात् वायौ प्रबले सति वृक्षपर्वतशृङ्गं आकाशलङ्घनं खने पश्यति १, पित्ताधिके स्वर्णरत्नदिवाकरवहिप्रमुखाणि स्वप्ने पश्यति २, श्लेष्माधिक्ये सति अश्वचन्द्रनक्षत्रशुक्लपक्षनदीसरोवरसमुद्रादीनां लङ्घनं पश्यति ३, पुनः गोवृषभहस्तिपासादपर्वतशृङ्गवनस्पतीनां आरोहणं विष्ठालेपनं रुदितं मृतिं च यः खमे पश्यति तस्य श्रेष्टम् । पुनः यः स्वप्ने राजानं हस्तिनं अश्वं स्वर्ण वृषभं गावं कुटुम्बं च पश्यति, तस्य कुटुम्बपरिवारो वर्धते । पुनः यः प्रासादस्थितो भुड़े, समुद्रं च स्वप्ने तरति, स दासकुले उत्पन्नोऽपि राजा भवति । पुनः यो दीपं, अन्नं (अभ्रं) फलं पद्मं कन्यां छत्रं ध्वजं च स्वप्ने पश्यति, स जयं लभते । पुनः यः खेप्सितं लिङ्गं प्रतिमां च खप्ने पश्यति, तस्य आयुःकीर्तियशोधनानां वृद्धिः भवेत् । पुनः यः कसभस्मास्थितक्रवर्जितानि शुक्लवस्तूनि पश्यति, तस्य शोभनं भवेत् । पुनः यो गोहस्तिदेवाऽश्वनरेन्द्रवर्जितानि सर्वाणि वस्तूनि कृष्णानि स्वमे पश्यति, तस्य न शोभनं भवेत् । पुनः स्वममध्ये गाने रोदनं भवेत्, नर्तने बन्धनं प्राप्नुयात्, हसने शोचनं लभेत् , पठने कलहं लभते । पुनः खग्ने देवसाधुविप्रपितृराजवृषभाः यद्वदन्ति तत् सत्यं भवति । पुनः श्वेतसर्पण दक्षिणभुजे स्वममध्ये दष्टो भवेत् , तस्य सहस्रलाभो दशमदिने स्यात् । पुनः यो वृक्षं फलितं पुष्पितं क्षीरिणं स्वममध्ये अधिरोहति, तस्य XXXXXXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy