SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XXXXXX ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभिः उजवलं, अत एव अभिरामम् । किंविशिष्टं शिखिनम् ? । ज्वालानां प्रकरैः = कलापैः समूहैरित्यर्थः । अन्योन्यं अनुप्रकीर्णमिव मिश्रितमिव स्पर्धया तस्य वह्नेः ज्वालाः अन्योन्यं अनुप्रविशन्तीत्यर्थः । किंविशिष्टैः ज्वालाप्रकरैः ? । "तरतमेत्ति" तरतमयोगो येषु ते तरर्तमयोगाः, अभ्रादित्वात् अप्रत्ययः । कथम् १ | एका ज्वाला उच्चा, अन्या उच्चतरा, अपरा उच्चतमा इति तरतमयोगयुक्तः । पुनः किंविशिष्टं शिखिनम् ? । “जालुत्ति" ज्वालानां उत् ऊर्ध्व ज्वलनं ज्वालोज्वलकं, आर्षत्वात् विभक्तिलोपः । पुनः किं कुर्वन्तम् ? । “कत्थईत्ति” कचित्प्रदेशे, अम्बरं=आकाशं पचन्तमिव । कचित् अभ्रंलिहाभिः ज्वालाभिः आकाशमिव पत्तुं उद्यतमिति भावः । पुनः किंविशिष्टं शिखिनम् ? । अतिवेगेन चञ्चलम् । निर्धूमाग्निदर्शनेन भगवतो वह्निवत् तपस्तेजो भविष्यति । निर्धूमाग्निवत् भगवान् मङ्गलरूपो भावी ॥ इति चतुर्दशखमनिधूर्माग्निविचारः ॥ १४ ॥ एते च खवर्णकाः बहुषु आदर्शेषु न दृश्यन्ते, एवं येष्वपि सन्ति तेषु बहवो वाचनाभेदाः, अत एव बहुभिः पर्युषणाकल्पोपनिबन्धकारैः व्याख्याताः । मया तु यथाऽऽन्नायं यथाऽवबोधं च किंचिद्व्याख्याताः इति ॥ अथ एतान चतुर्दशस्वमान् दृष्ट्वा त्रिशला क्षत्रियाणी कीदृशी जाता ? तत्राह - इमेारसे सुभे सोमे पियदंसणे सुरूवे सुविणे दट्टण सयणमज्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइअंगी ॥ एए चउदस सुमिणे, सवा पाइ तित्थयरमाया । जं स्यणि कमई, कुच्छिसि महायसो अरहा ॥ ४७ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy