SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबन्धायमानः न विद्यते "निअत्तति" पश्यन् द्रष्टा यस्य तत् । "अनि अन्तं” केनापि अदृश्यमानदूरत्वात् । अत एव भासुरं भयङ्करम् यत् तटं=परपारं तेन अभिरामो वैपुल्येन मनोहारीत्यर्थः । ततः प्रबन्धाय पदेन सह कर्मधारयः । एतावता यस्य समुद्रस्य अतिचञ्चलकल्लोलैः लोलत् पानीयं वर्तते, पुनः यस्य वायुना आहता:= | चलिताः चपलाः तरङ्गाः = लघुकल्लोलाः वर्तन्ते । पुनः यस्य समुद्रस्य भङ्गाः विच्छित्तिमन्तः तरङ्गा एव रङ्गन्तः प्रेङ्खन्तो वर्तन्ते, पुनरपि यस्य ऊर्मयो महाकल्लोला अतिक्षुभ्यन्तः खोकुग्भमाणशब्दं कुर्वन्तः शोभमाना निर्मला उत्कटाय सन्ति, पुनः यः समुद्रः कल्लोलैः तरङ्गैः भङ्गैः ऊर्मिभिश्च सार्धं यः सम्बन्धः तेन तीरसम्मुखं धावमानो निवर्तमानश्च महाभयङ्करो वर्तते । तीर्थकर मातरः सिंहमपि सौम्या कारमेव स्वप्ने पयन्ति, न दूरात्मानं कथं पुनः क्षीरसमुद्रं अतिभयंकरमिति स्वयमेवालोच्यम् । पुनः किंविशिष्टं क्षीरसागरम् ? । “महामगरेत्ति" महान्तो मकराश्च १, मत्स्याश्च २, तिमयश्च ३, तिमिंगिलाश्च ४, निरुद्धाश्च ५, तिलितिलिकाश्च ६, जलजन्तुभेदाः, | तेषां अभिघातेन = पुच्छाद्याच्छोटनेन कर्पूर इव कर्पूर उज्वलत्वात् फेनप्रसरो यत्र स तम् । पुनः किंविशिष्टं क्षीरसागरम् ? । “महानईत्ति" महानदीनां = गङ्गादीनां त्वरितवेगैः समागतभ्रमः = उत्पन्नभ्रमणो यो गङ्गावतरूय आवर्तः तत्र गुप्यत् व्याकुलीभवत् अत एव उच्चलत् प्रत्यवनिवृत्तं च व्यावृत्तं भ्रममाणं भ्रमणशीलं लोलं स्वभावात् अस्थिरं सलिलं यस्य स तम् । पुनः यस्मिन् समुद्रे चतुर्दशलक्षाः षट्पञ्चाशत्सहस्राश्च (१४५६०००) नद्यः पतन्ति । कथं ? तत्राह - चतुर्दशचतुर्दश सहस्रनदीपरिवारसहिता गङ्गा सिन्धुश्च भरतक्षेत्रसम्बन्धिनी । For Private and Personal Use Only *oyay-c***cy XX
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy