________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ३
॥ ६६ ॥
XXXX-XX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"रविकिरणे त्ति” "तरुण " शब्दस्य इह संबन्धात् । तरुणरविकिरणबोधितानि यानि सहस्रपत्राणि - पद्मानि तैः सुरभितरं पिञ्जरं च पीतरक्तं जलं यस्मिन् तत् तथा । अथवा " पुणरवित्ति” पुनरपि रविकिरण: = सूर्यः तेन तरुणेन = अभिनवेन बोधितानि इत्यादि योज्यम् । पुनः किंविशिष्टं पद्मसर : ? । “जलचरे त्ति" जलचरा = यादांसि तेषां "पहकरत्ति" देश्यत्वात् समूहः तेन "परिहत्थं त्ति" परिपूर्णम् | जलचर पहकर परिहत्थगं च तत् मत्स्यपरिभुज्यमानजलसंचयेति विशेषणकर्मधारयः । पुनः किंविशिष्टं पद्मसरः ? | महत् । पुनः किंविशिष्टं पद्मसरः १ । कमलं = सूर्यविकासि १ कुवलयं = नीलम् २ उत्पलं रक्तम् ३ तामरसं = महाम्भोजम् ४ पुण्डरीकं श्वेतम् ५ एषां उरुभिः = विशालैः सर्पद्भिः = उल्लसद्भिः श्रीसमुदयैः = कान्तिप्राग्भारैः ज्वलदिव= दीप्यमानमिव । पुनः किंविशिष्टं पद्मसरः ? । अत एव रमणीयरूपशोभम् । पुनः किंविशिष्टं पद्मसरः ? । “पमुइयंति" प्रमुदितं अन्तश्चित्तं येषां (प्रमुदितानां ) ते च ते भ्रमरगणाश्च मत्ता प्रमदा मधुकरीगणाश्च ते च ते भ्रमरजातिविशेषाः तेषां उत्कराः, समूहानामपि समूहाभिधानं अतित्रत्वख्यापनार्थम्, नैः अवलिश्यमानानि = खाद्यमानानि कमलानि यत्र तत् । पुनः किंविशिष्टं पद्मसरः ? | "कार्यबे त्ति” कादम्याः कलहंसाः १ वलाहकाः = बलाकाः २ चक्राः = चक्रवाकाः ३ कला - मधुरध्वनयः हंसा = राजहंसाः ४ सारसा दीर्घजानुकाः ५ ते च ते गर्विताः = सुस्थानप्राध्या दृप्ताः शकुनिगणाश्च = पक्षिसमूहाच तेषां मिथुनै:-द्वन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा । पुनः
For Private and Personal Use Only
पद्मसर:
स्वन
वर्णनम् १०
॥ ६६ ॥