SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवी कल्पसूत्र कल्पलता व्या०३ CON ॥५८॥ पुष्पमालया च विराजितं कलशसदृशं च वर्तते। पुनः किविशिष्टां श्रीदेवीम् । एवंविधेन मुक्ताकलापेन मौक्तिकहारेण सहिताम् । किंविशिष्टेन मुक्ताकलापेन ? | "आइयपत्ति" आदतः आदरसहितैः प्रत्ययः तः आप्तैः वैज्ञानिकैः, विभूषितेन विरचितमण्डलेन । पुनः किंविशिष्टेन मुक्ताकलापेन ? "सुभगेत्ति" सुभगैः दृष्टिहारिभिः जालको गुच्छविशेषैः उज्वलेन । अथवा किंविशिष्टेन मुक्ताकलापेन ? आचितैर्मर्यादास्थानौचित्लेन न्यस्ता पत्रिका मरकतपत्राणि ताभिर्विभूषितेन इति योज्यम् । क्वचित् "आतिअपत्तिअत्ति" दृश्यते, तत्र त्रिक वंशस्य अधोभागः, तत्समीपोषलक्षितोऽग्रभागोऽपि त्रिकम् । ततः आत्रिकात-त्रिकं यावत्, पाप्तिः अवकाशो यस्य तत् आत्रिकप्राप्तिकम् । एवंविधं विभूषितं विभूषा घेन मुक्ताकलापेन तदवधि प्रलम्बमानत्वात् इत्यर्थः । पुनः किंविशिष्टां श्रीदेवीम्। "उरत्थदीणारमालियेत्ति" उरास्थया दीनारमालया विरचितेन विराजितेन वा कण्ठमणिसूत्रकेण च उपलक्षिताम् । पुनः किंविशिष्ट श्रीदेवीम् ? । आननकौटुम्बिकेन शोभागुणसमुदयेन च उपलक्षिताम् । किंविशिष्टेन आननकौटुम्बिकेन ? | "कुंडलेत्ति" आर्षत्वात् , अंसोपसत्कं स्कन्धलग्नं विशेषणमपि परमेव । एवमन्यत्रापि यत् कुंडलयुगं तस्य उल्लसन्ती प्रशस्ता प्रभा यत्र तथाभूतेन । यथा किल राजा कौटुम्यिकैः शोभते एवमाननमपि शोभासमुदायेन इति, शोभा दीप्तिः, स एव गुणः तस्य समुदायः प्राग्भारः तेन उपलक्षिताम् । पुनः किंविशिष्टां श्रीदेवीम् ? | "कमलेत्ति" कमलचत् अमले विशाले विस्तीर्णे रमणीये| लोचने यस्याः सा ताम् । पुनः किंविशिष्टां श्रीदेवीम् ? । “कमलेत्ति" प्रज्वलन्ती दीप्तौ यो करी तगृहीताभ्यां ॥५८॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy