SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir *****XXGXOXOXXX सा ताम् । एतावता यस्याः श्रीदेव्या रोमराजी जात्याञ्जन १ भ्रमर २ मेघघटावत् ३३यामा शिरीषादिपुष्पादिभ्योऽपि सुकुमारा निरन्तरा मनोहरा च वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? । “नाभीमंडलेति' नाभीमण्डलेन सुन्दरं विशालं प्रशस्तं सुलक्षणत्वात् जघनं यस्याः सा ताम् । एतावता यस्याः श्रीदेव्या नाभीमण्डलेन जघनं अत्यन्तसुन्दरं प्रशस्तलक्षणसहितं च वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? । "करयलमाइअत्ति" करतलेन (मुष्टिना) मेयं मानं वा, प्रशस्तत्रिवलीकं शोभनवलित्रययुक्तं मध्यं यस्याः सा ताम् । एतावता यस्याः कटिमध्यं करतलेन ग्राह्यं वलिनयशोभितं च वर्तते । पुनः किंविशिष्टां श्रीदेवीम् । "नानामणित्ति" नानाप्रकाराणि यानि भूषणानि-आभरणानि वा इति योज्यम् । मणयः चन्द्रकान्ताद्याः, रत्नानि -वैडूर्यादीनि, कनकं पीतवर्ण तपनीयंरक्तवर्ण, तच जात्यत्वात् विमल-महच्छब्दाभ्यां विशेषितं तेषां यानि आभरणानि अंगपरिधेयानि, भूषणानि उपाहपरिधेयानि तैः विराजितानि यथाक्रम अङ्गानि-शिरःप्रभृतीनि, उपाङ्गानि अङ्गुल्यादीनि यस्याः सा ताम् । आगम आर्षत्वात् । एतावता नानाप्रकारैः चन्द्रकान्तादिमणीनां वैडूर्यादिरत्नानां पीतसुवर्णस्य रक्तसुवर्णस्य च यानि आभरणानि तैः शिरःप्रभृतीनि अङ्गानि, भूषणैश्च अङ्गुल्यादीनि उपाङ्गानि यस्याः, विराजमानानि सन्ति । पुनः किंविशिष्टां श्रीदेवीम् ? । "हारविरायंत्ति” हारेण विराजत् कुन्दमालया च परिणद्धं । “जलजलिंतत्ति" जाज्वल्यमानम् , “जलजलितत्ति" पाटे तु जलवत् भृशं दीप्यमानं स्तनयुगलमेव विमलौ कलशौ यस्याः सा ताम् । एतावता यस्याः श्रीदेव्याः स्तनयुगलं हारेण कुन्दजातीय For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy