SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AVM मान्धात्कथा कल्पसूत्रं अनाऽऽह कोऽपि शिवशासनी-'अहो! जैनदर्शने एषा डिङ्गरूपा असम्बद्धा वक्तव्यता!। एवमपि गर्भकल्पलता परावर्तनं कदापि भवति ? तत्रोच्यते-शिवशासनेऽपि श्रीभागवते दशमस्कन्धे द्वितीयाध्ययने बलदेवस्य गर्भव्या०२ परावर्तनं श्रूयते। तत्रत्यं श्लोकचतुष्टयम्-"भगवानपि विश्वात्मा, विदित्वा कंस भयम् । यदूनां निजनाधानां, योगमायां समादिशन् ॥१॥ गच्छ देवि! ब्रजं भद्रे, गोपं गोभिरलङ्कतम् । रोहिणी वसुदेवस्य, भार्याऽऽस्ते ॥४८॥ नन्दगोकुले ॥२॥ देवक्या जठरे गर्भ, शेषाख्यं धाम मामकम् । तत्संनिकृष्य रोहिण्या, उदरे संनिवेशयत् ॥ ३॥ गर्भसंकर्षणात् तं चै, आहुः संकर्षर्ण भुवि । रामेति लोकरमणा-ठूलभद्रं बलाश्रयात् ।। ४॥” । पुनरपि पुराणे मान्धाताराजोत्पत्तिकथा यथा-विशाला नाम नगरी, तत्र यवनाश्वो राजा महासाम्राज्यधरः, परं अपुत्रः, तेन पुत्रार्थ १६०० पोडशशतकन्यापाणिग्रहणं कृतम् , परं तथापि पुत्रो न जायते, तेन मनसि * अतीव दूनः चिन्तातुरः, यतः-"अपुत्रस्य गतिनास्ति, खगों नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा, खर्गे यान्ति हि मानवाः॥१॥” पुनः 'गेहंपि तं मसाणं, जत्थ न दीसंति धूलिधूसरमुहाई। उहृति पडंति रडवडंति दो तिन्नि | डिभाई॥' इत्यादि, ततः कस्याप्युपदेशात् ८८००० अष्टाशीतिसहस्रऋषीणां भोजनं दातुं प्रवृत्तः। ३३ त्रयस्त्रिंशत्कोटिदेवताऽऽराधनमपि कृतम् , तथापि पुत्रो न भवति । एकदा ८८ सहस्रऋषिभिः विमृष्ठम्-'अयं राजा आत्मनां प्रत्यहं मिष्टान्नपानः भक्तिं करोति, परं कस्यापि पुत्रकरणे शक्तिः नास्ति, सर्वेऽपि उदरम्भरयः FoXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy