SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्ये तृतीये मासे आश्विने पञ्चमे पक्षे कृष्णपक्षे "तेरसीपक्खेणं" त्रयोदशीपक्षे पश्चार्धरात्रौ यशीतिरात्रिदिनेषु व्यतिक्रान्तेषु यशीतितमस्य रानिन्दिनस्य "अंतरा वहमाणे" अंतरकाले रात्री "हिआणुकंपएणं" हितः शक्रस्य स्वस्य च, अनुकम्पस्तु भक्तो भगवतः, अनुकम्पा च अत्र भक्तिः, एवंविधेन हरिणैगमेषिणा देवेन शक्रवचनसन्दिष्टेन ब्राह्मणकुण्डग्रामात् ऋषभदत्तभार्यायाः देवानन्दायाः कुक्षितः, क्षत्रियकुण्डग्रामे सिद्धार्थभार्यायाः त्रिशलायाः कुक्षी अर्धरात्रिसमये उत्तरफाल्गुनीनक्षत्रे चन्द्रेण सह वर्तमाने गर्भत्वेन संहृतः॥ भगवतस्तदा कियत् ज्ञानं आसीत् ? तदाह| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था, तं जहा___ साहरिजिस्सामित्ति जाणड़, साहरिजमाणे न जाणइ, साहरिएमित्ति जाणइ ॥ ३० ॥ व्याख्या-"समणे भगवं महावीरे"श्रमणो भगवान महावीरः ज्ञानत्रयसहितोऽभवत्, तेन मां संहरिष्यति इति जानाति संहियमाणोन जानाति २संहरणस्यापि एकसामयिकत्वात् । यद्यपि च अत्र अन्तर्मुहूर्तकालःसंभाव्यते, तथापि छाद्मस्थिकोपयोगादपि संहरणकाला सूक्ष्मतर इत्याम्नायिकाः । केचित्तु "साहरिज्वमाणे वियाण" इति पठन्ति, कथम् ? श्रीआचाराने तथैव दर्शनात् । परं न चायं पाठः सार्वत्रिकः । संहृत इति च जानाति ३॥ * उक्तमिति गर्भावहारकल्याणकम् ।। ** For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy