SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० २ ॥ ३६ ॥ XXXX -03-0 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुम्भसमीपे गताः, मल्ली याचिता, राज्ञा सर्वेऽपि दूता अपमानिता :- " कस्यापि राज्ञो मम पुत्रीं अहं न दास्यामि । " ततः षडपि राजानो अभिमानेन निजं निजं सैन्यं लात्वा समकालमागत्य मिथिलानगरीं रोधयामासुः । कुम्भराजो बहिः निःसृत्य, युद्धं कुर्वन् भग्नो मिथिलां प्रविष्टः । ततो मल्लीप्रपञ्चवचनेन राज्ञा सर्वेऽपि आकारिताः, ते राजानो रत्नगृहं प्राप्ताः, षट्सु अपवरिकासु पृथक् पृथक् प्रविष्टाः । तदा मल्लेः प्रतिमां साक्षात् मल्लिमिव दृष्ट्वा मोहिताः । ततो मल्लीकुमार्या तत्रागत्य तत्प्रतिमायाः शिरः पिधानं उद्घाट्य दूरीकृतम् । ततः उच्छलितो महादुर्गन्धः । ततः ते राजानो वस्त्रेण नासिकां निपीड्य थू थूकुर्वन्तो नष्टाः । ततः तेषां प्रतिबोधाय मल्ली आगत्य कथयति स्म - 'हंहो राजानः । यदि रत्नमय्यामपि पुत्तलिकायां आहारसंसर्गात् ईदृशो दुर्गन्धो जातो भवतां प्रातुं न शक्यो दुःखावहश्च तदा स्वाभाविकदुर्गन्धासु स्त्रीषु किं एतावान् रागः प्रतिबन्धश्च क्रियते ? कथं रागान्धा जाताः ?' इत्यादिप्रतिबोधवचनपूर्व पूर्व भवमित्रताकथनेन प्रोक्तम्- 'सांप्रतं यूयं स्वस्थाने गच्छत, मम केवलज्ञाने उत्पन्ने शीघ्रं समागन्तव्यम्' तेऽपि सर्वे स्वखस्थानं गताः । मल्लिञ्च समये त्रिशती (३००) राजपुत्रीभिः समं दीक्षां जग्राह । तस्मिन्नेव दिने केवलोत्पत्तौ तैः षड्रिपि राजभिः मित्रैदिक्षा गृहीता मोक्षं गताः । महया च स्त्रीत्वेन तीर्थं प्रवर्तितम् ॥ इदं तृतीयं आश्चर्यम् ॥ ३ ॥ अथ - "अभाविआपरिसात्ति" श्रीमहावीरदेवस्य केवलज्ञानं उत्पन्नम् देवैः समवसरणं रचितम् सुरा नराश्च कोटिशः समागताः, भगवता देशना दत्ता, परं केनापि न सर्वविरतिः, नापि देशविरतिः, नापि सम्यक्त्वं For Private and Personal Use Only XOXOX दश आश्चर्याणि ॥ ३६ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy