SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org मल्टीकुमार्या रूपवर्णनं कृतम्-'न एतादृशं कापि रूपमस्ति। ततः चन्द्रच्छायराजेनापि कुम्भं प्रति दूतो मुक्त:-'यत् मल्ली मम देया' इति (२) पुनः इतश्च अन्यदा मल्लीकुण्डलं भग्नं कुम्भेन राज्ञा । कुण्डलसन्धानार्थ स्वर्णकारः समादिष्टः। स प्राह-'हे देव ! इदं देवसम्बन्धि कुण्डलं न मया सन्धातुं शकाते । ततो रुष्टेन% राज्ञा स स्वर्णकारो देशात् निष्कासितो, गतो वाराणस्यां शङ्खराज्ञः समीपे निजवासार्थम् । राज्ञा पृष्टम्-'कथं खदेशं त्यक्त्वा अनागतः। तेन कुण्डलसम्बन्धं कथयता मल्लीरूपवर्णनं कृतम् , तेनापि शङ्खराजेन कुम्भं प्रति दूतो मुक्तः (३) इतश्च रुक्मिराजेनाऽपि सुबाहुनाच्या निजपुत्र्या कृते चातुर्मासिकमजनविच्छित्तौ क्रियमाणायां दूताः पृष्टाः, ते पाहुः-'मल्ले मन्जनक[गृहस्थाने इदं लक्षांशेऽपि नायाति। तेनापि रुक्मिराजेन कुम्भ प्रति मल्ली निमित्तं दूतो मुक्तः (१) इतश्च कुम्भपुत्रेण मल्ले: लघुभ्रात्रा मल्लादिनन चित्रकरैः चित्रसभा चित्रपिता । चित्रकरण लब्धिमता यवनिकान्तरितमल्लिपादाङ्गुष्टं दृष्ट्वा, मल्लीरूपं (यथावत्) तत्स्वरूपं चित्रितमासीत् । तत्रैकदा मल्लदिन्नः स्वभार्याभिः सह क्रीडन्, मल्लीरूपं दृष्ट्वा लज्जितो रोषात् हस्तौ छित्त्वा चित्रकरो देशानि:कासितः। स हस्तिपुरं गत्वा अदीनशत्रो राज्ञो मिलितः, मल्लीरूपवर्णने कृते अदीनशत्रुराजेनाऽपि मल्लीनिमित्तं कुम्भं प्रति दूतो मुक्तः (१) इतश्च धर्मचर्चायां एका परिवाजिका चोखेति नाम्नी, मल्लीकुमार्या जिता मानभ्रष्टा कृता । सा रुष्टा सती कम्पिलानगर्या गत्वा, जितशत्रुराजस्याग्रे मल्लीरूपं पटे लिखित्वा दर्शयति स्म । तेनापि राज्ञा रूपमोहितेन मल्लीकृते कुम्भं प्रति दूतो मुक्तः (६) एवं षण्णामपि राज्ञां पडपि दूताः समकालं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy