________________
Scanned by CamScanner
धमापदेश
॥४॥
चीरचंद्रमाः ॥ चंपकं चतुरा नारी । ग्रीष्मे सप्त सुखावहाः ॥ १॥ एवमतिशयेन तया स्तुतः स ग्रीष्मः || | कालोऽपि गाढं जहर्ष. ततो लब्धावसरेण वर्षाकालेन प्रोक्तं, हे शुभवाक्यसुधासारिणि मातस्त्वं कथय? | कीदृशोऽहं ? तद्वचनं श्रुत्वा स्वशिरोधूननपूर्वकं सा जरती जगाद, हे पुत्र! त्वं तु सर्वोत्तमः, विश्वाधारादिवहुविरुदयुक्तोऽसि, तव गुणांश्च वक्तुं सुरगुरुरपि समथों न भवति, तदान्यस्य का कथा ? परमात्मश
क्त्या लेशमात्रं त्वद्गुणवर्णनं करोमि, तत्त्वं शृणु? भवदागमने च सप्त पकारा भोगाय भवंति, यतः* पीतांवरं पयः पद्मं । पादुका पूर्णमंदिरं ॥ पुराणं पद्मपत्राक्षी । प्रावृषि ते सुखावहाः ॥ १॥ इति तयोक्तं |
श्रुत्वा सोऽपि संतुष्टः, एवं च ते त्रयोऽपि परं संतोषं प्राप्ताः. ततस्तैः संतुष्टैस्तस्यै तिस्रः करंडिका दत्ताः, प्रोक्तं चैष्वेकस्मिन् देवदूष्यंदुकूलमस्ति, द्वितीये त्वाभूषणानि संति, तृतीये च खंडखाद्यादीप्सितभोजनं व वर्तते. इत्युक्त्वा तां च स्तुत्वा ते त्रयोऽपि स्वर्गं गताः. ततः सा स्थविरा तु हृष्टमनास्तां प्रपां विहाय
स्वगृहप्रति चचाल. परिहितदुकूला, नखाग्रतः केशांतमाभरणभारधारिणी समायांती सा वधूसहि * घुत्रेणान्यैर्जनैश्च दृष्टा. इतो हे मातहें मातरिति ब्रुवंस्तत्र बहुर्जनो मिलितः, सर्वैः सत्कृता सा सुखभाजनं |
MediaWUMBHARA