SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥ ३७ ॥ तथाहि - अवंतीदेशे श्रीविशालाभिधानायां नगर्यौ सुघटिताभिधो राजाभूत् तस्य रत्नमंजर्याह्वया राज्ञी बभूव तयोश्च विक्रम सिंहाख्यः पुत्रोऽजनि ज्ञानगर्भाख्यश्च राज्ञः पुरोहितोऽभवत्. अथ कदाचिदास्थानसभायामुपविष्टे राज्ञि कोऽपि भृत्यः समागत्य तस्य ज्ञानगर्भस्य पुरोहितस्य श्रवणे प्रच्छन्नं किमपि कथयामास तत् श्रुत्वा स पुरोहितोऽतीव विस्मयपूर्वकं निजमस्तकं धूनयामास तदा राज्ञा तद्विस्मयकारणं पुरोहिताय पृष्टं तदा पुरोहितः प्राह महाराज एतत्कथयितुं न योग्यं यतस्तत्श्रवणेन भवतां मनस्य स - माधिर्भविष्यति परं राज्ञा साग्रहं पृष्टः स प्राह, स्वामिन्! मम गृहे दास्यैकया पुत्रो जनितोऽस्ति, संच त्वयि जीवति तव नगर्यो राज्यं करिष्यति एतच्च श्रुत्वा कोपानलेन ज्वलन् राजा तत्र स्थातुमशक्तो निजास्थानं विसृष्टवान् अथ स पुरोहितोऽपि स्वगृहे गत्वा चक्रचापादिनिःशेषराजलक्षणविराजमानं तं बालमद्राक्षीत् ततोऽसौ व्यचिंतयदहो ! विषमाः कर्मणां गतयः ! यदेतस्यापि पुरुषरत्नस्य दुष्कुलावतार इति. अथ स राजापि वर्धमानोऽयं बालो न मम श्रेयसे इति चिंतयन् तन्मारणाय स्वसेवकद्वयस्यादेशं दत्तवान्, तौ च तं बालं गृहीत्वा तस्य पुण्यानुभावेन समुत्पन्ननिजमानसकृपारसौ कथमपि तं हतुमनु 419 कर्णिका ॥ ३७ ॥ Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy