SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ૨૮૦ યોગશાસ્ત્ર સૂક્ત- રત્ન - મંજૂષા ४/५९ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥४८॥ ४/६१ इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ? ॥८९॥ ४/६२ पितुर्मातुः स्वसुर्धातुः, तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥१०॥ ४/६३ शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः ॥११॥ ४/६४ संसारे दुःखदावाग्नि-ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥१२॥ ४/६५ श्रोत्रियः श्वपचः स्वामी, पत्तिः ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत्, संसारी हन्त ! चेष्टते ॥१३॥ ४/६७ समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः ॥१४॥ ४/६८ एक उत्पद्यते जन्तुः एक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥१५॥ ४/६९ अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते । स त्वेको नरकक्रोडे, क्लिश्यते निजकर्मभिः ॥१६॥ ४/७० यत्रान्यत्वं शरीरस्य, वैसदृश्यात् शरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥१७॥ ४/७२ रसासृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः? ॥९७८।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy