SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા ૨૭૯ ४/२९ पयस्यगाधे विचरन्, गिलन् गलगतामिषम् । मैनिकस्य करे दीनो, मीनः पतति निश्चितम् ॥७७॥ ४/३० निपतन् मत्तमातङ्ग-कपोले गन्धलोलुपः । कर्णतालतलाघाताद्, मृत्युमाप्नोति षट्पदः ॥७८॥ ४/३१ कनकच्छेदसङ्काश-शिखाऽऽलोकविमोहितः । रभसेन पतन् दीपे, शलभो लभते मृतिम् ॥७९॥ ४/३२ हरिणो हारिणी गीतिम्, आकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य, याति व्याधस्य वेध्यताम् ॥८॥ ४/३३ एवं विषय एकैकः, पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च, पञ्चत्वाय भवन्ति न ? ॥८१॥ ४/३७ अनिरुद्धमनस्कः सन्, योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुः ग्रामं, स पङ्गुरिव हस्यते ॥८२॥ ४/४१ सत्यां हि मनसः शुद्धौ, सन्त्यसन्तोऽपि यद् गुणाः । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधैस्ततः ॥८३॥ ४/४२ मनःशुद्धिमबिभ्राणा, ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम् ॥८४॥ ४/४३ तपस्विनो मनःशुद्धि-विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥८५॥ ४/५१ प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यात् नरस्तीव्र-तपसा जन्मकोटिभिः ॥८६॥ ४/५७ यत् प्रातः तन्न मध्याह्ने, यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही, पदार्थानामनित्यता ॥८७॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy