SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ૫૬ વીતરાગસ્તોત્ર સૂક્ત- રત્ન - મંજૂષા ११/८ महीयसामपि महान्, महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् ।।६६।। १२/२ दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु ।।६७।। १२/४ यदा मरुन्नरेन्द्र श्रीः, त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदाऽपि ते ।।६८।। १२/६ सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति, कुत्र नासि विरागवान् ? ।।६९।। १२/७ दुःखगर्भे मोहगर्भे, वैराग्ये निष्ठिताः परे । ज्ञानगर्भ तु वैराग्यं, त्वय्येकायनतां गतम् ।।७०।। १२/८ औदासीन्येऽपि सततं, विश्वविश्वोपकारिणे । नमो वैराग्यनिघ्नाय, तायिने परमात्मने ।।७१।। १३/१ अनाहूतसहायस्त्वं, त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं, त्वमसम्बन्धबान्धवः ।।७२।। १४/५ तथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणि भवान्, अहो ! सर्वमलौकिकम् ।।७३।। १५/३ च्युतश्चिन्तामणिः पाणेः, तेषां लब्धा सुधा मुधा । यस्त्वच्छासनसर्वस्वं, अज्ञानात्मसात्कृतम् ।।७४।। १५/५ त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं, तेषां हन्त ! हतात्मनाम् ।।७५ ।। १५/६ अनेडमूका भूयासुः, ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यम्, अपि पापेषु कर्मसु ।।७६।।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy