SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા ર૫૫ ९/२ सुषमातो दुःषमायां, कृपा फलवती तव । मेरुतो मरुभूमौ हि, श्लाघ्या कल्पतरोः स्थितिः ।।५५।। ९/३ श्राद्धः श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्यं, एकच्छत्रं कलावपि ।।५६।। निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजःकणः ।।५७।। युगान्तरेषु भ्रान्तोऽस्मि, त्वदर्शनविनाकृतः । नमोऽस्तु कलये यत्र, त्वदर्शनमजायत ।।५८।। १०/२ निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः । स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वक्तुं न ते गुणान् ।।५९।। १०/३ संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ? ।।६०।। १०/६ द्वयं विरुद्धं भगवन् !, तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्त्तिता ।।६१।। १०/७ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ।।६२।। १०/८ शमोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नमः ।।६३।। ११/१ निघ्नन् परीषहचमू, उपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं, महतां काऽपि वैदुषी ।।६४।। ११/६ रागादिषु नृशंसेन, सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः, साम्राज्यं साधितं त्वया ।।६५।।
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy